SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ ३६४] [धर्मसंग्रहः-द्वितीयोऽधिकारः दिगादिभेदे दिगादिभिर्भेदे सति दिगाद्यपेक्षयेत्यर्थः तथाहि -द्वयोः साध्वोः सद्वस्त्रत्वे सति यो दिशाऽऽसन्नस्तस्मै देयम् , एवमसद्वस्त्रत्वे लब्धियुतत्वे तदितरत्वे चेति । अथ तुल्येऽपि भावे दिशमतिक्रम्य ददतः किं स्याद् ? इत्याह -तया दिशाऽददतः -अप्रयच्छत आज्ञा भङ्गानवस्थामिथ्यात्वलक्षणा दोषा भवन्तीति गाथार्थ [ पञ्चाशकटीका प०१०६] आभवद्व्यवहारापेक्षया च दिग् गृहस्थस्य प्रविव्रजिषोरुत्प्रव्रजितस्य वाऽऽगमे दृश्यते, नान्यस्य, यत इयं कल्पव्यवहारोक्ता दिग्व्यवस्था –यः प्रवजितुकामः सामायिकादिपाठप्रवृत्तः स त्रीणि वर्षाणि यावत् प्रतिबोधकाचार्यस्यैव सत्को भवति । यदाह - "सामाइआइए खलु , धम्मायरिअस्स तिण्णि जा वासा। नियमेण होइ सेहो, उज्जमओ तदुवरिं भयणा ॥१॥[] यस्त निववादित्वा पनः प्रव्रजति, तस्य स्वेच्छया दिक, अत्यक्तसम्यक्त्वस्तूत्प्रव्रज्य यः प्रव्रजति स त्रीणि वर्षाणि यावत्पूर्वाचार्यस्यैव । आह च - "परलिंगिनिण्हए वा, सम्मइंसणजढे उ उवसंते । तद्दिवसमेव इच्छा, सम्मत्तजुए समा तिण्णि" ॥१॥[ प्रत्या./२७१] उत्प्रव्रजितस्तु द्विधा -सारूपी गृहस्थश्च, तत्र सारूपी रजोहरणवर्जसाधुवेषधारी, स च यावज्जीवं पूर्वाचार्यस्य, तन्मुण्डीकृतानि च, यानि च तेन न मुण्डितानि केवलं बोधितान्येव, तानि यमाचार्यमिच्छन्ति तस्यासौ ददाति, तदीयानि च तानि भवन्ति । अपत्यानां चायं विधिः -तदपत्यानि पर्वाचार्यस्यैव । आह च - "सारूवी जाजीवं, पुव्वायरिअस्स जे अ पव्वावे । अपव्वाविए सछंदो, इच्छाए जस्स सो देइ" ॥१॥[गु.वि./२-२२८] गृहस्थः पुनर्द्विविधो –मुण्डितः सशिखश्च, स च द्विविधोऽपि पूर्वाचार्यस्य, यानि च तेनोत्प्रव्रजनानन्तरं वर्षत्रयाभ्यन्तरे बोधयित्वा मुण्डीकृतानि तानि चेति । आह च - "जो पुण गिहत्थमुंडो, अहवाऽमुंडो उतिण्ह वरिसाणं ।। आरेणं पव्वावे, सयं च पुव्वायरिअ सव्वो" ॥१॥ [ प्रत्या./२७६ ] इति कृतं प्रसक्तानुप्रसक्तेन । अत्र चोपयोगी साधुनिमन्त्रणभिक्षाग्रहणादिविशेषोऽतिथिसंविभागव्रताधिकार उक्त एव । इदं च सुपात्रदानं दिव्यौदारिकाद्यभीष्टसुखसमृद्धिसाम्राज्यादिसंयोगप्रतिपूर्वकविनिलम्बनिर्वाणपदप्राप्तिफलं । यतः - १. P. पञ्चाशकटीका। [दिगादिभेदे]-मु० C. प्रतौ पार्श्वभागे ॥ २. च-L.P. नास्ति ।। D:\new/d-2.pm5\3rd proof
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy