SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ मध्याह्नकृत्यम्-श्लो० ६४॥] [३६३ "काहं अच्छित्तिं अदुवा अहिस्सं, तवोविहाणेसु अ उज्जमिस्सं ।। गणं व निईसु य सारस्सं, सालंबसेवी समुवेइ मुक्खं ॥२॥[प्र.सा./७७९ ] इति । दायकस्य गुणो यथा - "समणोवासयस्स णं भंते ! तहारूवं समणं वा माहणं वा अफासुएणं अणेसणिज्जेणं असणपाणखाइमसाइमेणं पडिलाभेमाणस्स किं कज्जइ ? गोयमा ! बहुतरिया से णिज्जरा कज्जइ, अप्पतरए से पावकम्मे कज्जइ त्ति" । [भगवतीसूत्रे २६३] तथा- “पहसंतगिलाणेसुं , आगमगाहीसु तहय कयलोए । उत्तरपारणगम्मि अ, दिण्णं सुबहुप्फलं होइ " ॥१॥[ श्रा.दि./२७३ ] इदमत्रावधेयम् -सकलोऽप्ययं दानविधिः ऋद्धिमच्छ्रावकमाश्रित्य ज्ञेयः, यतः स हि स्वपरपक्षाद्यविशेषेण सर्वसाधुभ्योऽन्नपानवस्त्रपात्रादि सर्वं ददाति । दरिद्रश्रावकस्तु तथादानाशक्तौ दानश्रद्धालुगृहाणि साधुभ्यो दर्शयति, तुच्छो ह्यविशेषेण दातुमशक्तोऽतोऽसौ धर्मगुरूणां दुष्प्रतिकारतया विशेषपूजनीयत्वात् तेभ्यस्तत्परिवाराय वा ददाति, शेषसाधुभ्यो गृहाण्युपदर्शयतीतिभावः । अत एवोच्यत - "सड्ढेणं सइ विहवे, साहूणं वत्थमाइ दायव्वं । गुणवंताणऽविसेसो, दिसाइ तत्थ वि न जेसत्थि" ॥१॥[ ] तुच्छेन दिशा देयम् , तत्रापि येषां साधूनां वस्त्रादि नास्ति तेभ्यो देयमित्यर्थः । तदुक्तं प्रत्याख्यानपञ्चाशके - "संतेअरलद्धिजुए, असइभावेसु होइ तुल्लेसुं। दाणं दिसाइभेए, तीएऽदितस्स आणाई" ॥१॥ [ पञ्चा./५-४३] व्याख्या -इहाविशेषेण साधुभ्यो दानं दातव्यं श्रावकेण, अथ तुच्छद्रव्यत्वादविशेषेण दानाशक्तिः ते च सद्वस्त्रत्वादिभिर्द्धमॆस्तुल्यास्तदा को विधिः?, अत्रोच्यते, सन्ते त्ति सत् – विद्यमानं वस्त्रादि, इतरच्च -अविद्यमानं वस्त्राद्येव, तदसत्त्वेऽपि लब्धियुतश्च -वस्त्रादिलाभयोग्यतायुतः, इतरश्च -तद्विकल इति द्वन्द्वः, ते आदिर्येषां ते तथा, आदिशब्दात् सपक्षसत्त्वेन सम्भाव्यमानवस्त्रादिलाभतदितरादिग्रहः । एतानि च सदादिपदानि लुप्तभावप्रत्ययानि द्रष्टव्यानि । ततश्च ते भावाश्च -साधूनामवस्थाः सदितरलब्धियुतेतरादिभावास्तेषु तुल्येषु - समेषु सत्सु , किम् ? इत्याह -भवति –वर्त्तते तुच्छस्येति प्रक्रमः, दानं -वस्त्रादिवितरणम् , १. उद्धृतं श्राद्धदिनकृत्ये गा० २७२ ।। २. L.P. | व्याख्या-मु० नास्ति । D:\new/d-2.pm5\3rd proof
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy