________________
३६२]
[धर्मसंग्रहः-द्वितीयोऽधिकारः "जं साहूण न दिण्णं, कहिं पि तं सावया न भुंजंति ।
पत्ते भोअणसमए, बारस्सालोअणं कुज्जा" ॥१॥[ न.प्र./१२५] दानक्रियायामुत्सर्गापवादौ त्वेवम् – "संथरणंमि असुद्धं, दुण्ह वि गिण्हंतदितयाणऽहिअं।।
आउरदिटुंतेणं, तं चेव हिअं असंथरणे ॥१॥[श्रा.दि./१७५] संस्तरणे प्रासुकैषणीयाहारादिप्राप्तौ साधूनां निर्वाहे सति, अशुद्धं द्विचत्वारिंशद्दोषदूषितमाहारादि, द्वयोरपि गृहीतृ-दात्रोः, अहितं संसारप्रवृद्धेरल्पायुष्कतायाश्च हेतुत्वादपथ्यं स्याद् । यद् आगमः -
"जो जह व तह व लद्धं, गिण्हइ आहारमुवहिमाईअं।
समणगुणमुक्कजोगी, संसारपवढओ भणिओ" ॥१॥[ओ.नि./४४७] तथा दायकस्य -"कहण्णं भंते ! जीवा अप्पाउत्ताए कम्मं पकरिति ? गोअमा ! पाणे अइवाइत्ता भवइ, मुसं वइत्ता भवइ, तहारूवं समणं वा माहणं वा अफासुएणं अणेसणिज्जेणं असणपाणखाइमसाइमेण पडिलाभित्ता भवइ, एवं खलु जीवा अप्पाउअत्ताए कम्मं पकरेंति' [ भगवतीसूत्रे २०३] त्ति ।
इत्थं चोत्सर्गत उभयोरपि दोषदुष्टमहितमेव, अपवादतस्तु आउरेत्यादि, आतुरो रोगी, तस्य दृष्टान्तस्तेन, यथा हि रोगिणः कामप्यवस्थामाश्रित्य पथ्यमप्यपथ्यं स्यात् , काञ्चित् पुनः समाश्रित्यापथ्यमपि पथ्यं स्याद् , एवमत्र 'तं चेव'त्ति तदेवाशुद्धमपि ग्रहीतृदात्रोहितमवस्थोचितत्वात् पथ्यं स्यात् , क्व ? इत्याह -असंस्तरणेऽनिर्वाहे, दुर्भिक्षग्लानाद्यवस्थायामित्यर्थः । अयमभिप्रायो -यद्यप्येतत्कर्मबन्धहेतुर्वर्णितम् । तथापि -
"सव्वत्थ संजमं, संजमाओ अप्पाणमेव रक्खिज्जा।
मुच्चइ अइवायाओ, पुणो विसोही न याविरई" ॥१॥[ओ.नि./४७] इत्याद्यागमाभिज्ञैर्यथावसरं बहुतरगुणलाभकाङ्क्षया गृह्यमाणं दीयमानं च न दोषाय । तथा चागमः
"अप्पेण बहुमेसेज्जा, एअं पंडिअलक्खणं ।
सव्वासु पडिसेवासु , एअं अट्ठापयं विऊ ॥१॥[] १. तुला-श्राद्धदिनकृत्यवृत्तिः प० २९४ ॥ २. तुला-श्राद्धदिनकृत्यवृत्तिः प० २९८ ।। ३. किञ्चित्पुनः-इति श्राद्धदिनकृत्यवृत्तौ ।।
D:\new/d-2.pm5\3rd proof