________________
मध्याह्नकृत्यम्-श्लो० ६४॥]
[३६१ "अभ्युत्थानं तदाऽऽलोकेऽभियानं च तदागमे । शिरस्यञ्जलिसंश्लेषः, स्वयमासनढौकनम्" ॥१॥ [ यो.शा./३-१२५] आसनाभिग्रहो भक्त्या, वन्दना पर्युपासनम् ।
तद्यानेऽनुगमश्चेति, प्रतिपत्तिरियं गुरोः" ॥ [यो.शा./३-१२६] दिनकृत्येऽपि
"आसणेण निमंतेत्ता, तओ परिअणसंजुओ।
वंदए मुणिणो ताहे, खंताइगुणसंजुए" ॥१॥[ श्रा.दि./१७३] एवं प्रतिपत्तिं विधाय सविनयं संविग्ना-ऽसंविग्नभावितक्षेत्रं १ सुभिक्ष-दुभिक्षादिकालं २ सुलभ-दुर्लभादि देयं च द्रव्यं ३ विचार्य आचार्योपाध्याय-गीतार्थ-तपस्वि-बालवृद्ध-ग्लान-सहाऽसहादिपुरुषाद्यपेक्षया च स्पर्धा-महत्त्व-मत्सर-स्नेह-लज्जा-भयदाक्षिण्य-परानुवर्त्तना-प्रत्युपकारेच्छा-माया-विलम्बाऽनादर-विप्रियोक्ति-पश्चात्तापदीनाननादिदोषवर्जमेकान्तात्मानुग्रहबुद्ध्या द्विचत्वारिंशद्भिक्षादोषाद्यदूषितं निःशेषनिजान्न-पान-वस्त्रादेर्भोजनाद्यनुक्रमेण स्वयं दानं दत्ते दापयति वा पार्श्वे स्थित्वा भार्यादिपाश्र्वाद् । यतो दिनकृत्ये -
"देसं खित्तं तु जाणित्ता, अवत्थं पुरिसं तहा।
विज्जु व्व रोगिअस्सेव, तओ किरिअं पउंजए" ॥१॥[ श्रा.दि./१७४ ] 'देशं मगधाऽवन्त्यादि साधुविहारयोग्यायोग्यरूपम् १, क्षेत्रं संविग्नैर्भावितमभावितं वा, तुशब्दात् द्रव्यमिदं सुलभं दुर्लभं वा, अवस्थां सुभिक्ष-दुर्भिक्षादिकाम् , पुरुषमाचार्योपाध्याय-बाल-बृद्ध-ग्लान-सहाऽसहादिकं च ज्ञात्वा, 'विज्जु व्व रोगिअस्स'त्ति, यथा किल भिषग् देशकालादि विचार्य व्याधिमतश्चिकित्सां करोत्येवं श्रावकोऽपि । ततः क्रियामाहारादिदानरूपां प्रयुक्त' इति तद्वृत्तिः [ श्राद्धदिनकृत्यवृत्तौ प० २९३] ।
तत्र च साधूनां यद्योग्यं तत् तत् सर्वं विहारयितुं प्रत्यहं नामग्राहं कथयति, अन्यथा प्राक्कृतनिमन्त्रणस्य वैफल्यापत्तेः, नामग्राहं कथने तु यदि साधवो न विहरन्ति, तथापिकथयितुः पुण्यं स्यादेव, अकथने तु विलोक्यमानमपि साधवो न विहरन्तीति हानिः । एवं गुरून्प्रतिलम्भ्य(?भ्य) वन्दित्वा च गृहद्वारादि यावदनुव्रज्य च निवर्त्तते। साध्वभावत्वनभ्रवृष्टिवत्साध्वागमनं जातु स्यात् तदा कृतार्थः स्यामिति दिगालोकं कुर्यात् । तथा चाहुः -
१. पाहे-इति श्राद्धदिनकृत्ये ।। २. P.L. विज्जो व्व-मु० C. || ३. विज्जो व-इति श्राद्धदिनकृत्यवृत्तौ प० २९३ ।. ४. तुला-श्राद्धदिनकृत्यवृत्ति प० २९२-३ ।।
D:\new/d-2.pm5\3rd proof