SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ ३६०] [धर्मसंग्रहः-द्वितीयोऽधिकारः "गेहागयाणमुचिअं, वसणावडिआण तह समुद्धरणं । दुहिआण दया एसो, सव्वेसिं सम्मओ धम्मो" ॥४४॥ [हि.मा./३१६] पुरुषमपेक्ष्य मधुरालापनाऽऽसननिमन्त्रणाकार्यानुयोगतन्निर्माणादिकमुचितमाचरणीयं निपुणैः । अन्यत्राप्यूचे - "सव्वत्थ उचिअकरणं, गुणाणुराओ रई अ जिणवयणे । अगुणेसु अ मज्झत्थं, सम्मद्दिट्ठिस्स लिंगाइं ॥१॥[पु.मा./११] मंचंति न मज्जायं. जलनिहिणो नाचला विहचलंति । न कया वि उत्तमनरा, उचिआचरणं विलंघन्ति ॥४५॥ [हि.मा./३१८] तेणं चिअ जगगुरुणो, तित्थयरा वि हु गिहत्थवासंमि । अम्मापिऊणमुचिअं, अब्भुट्ठाणाई कुव्वंति" ॥४६॥ [हि.मा./३१९] इत्थं नवधौचित्यम् । इत्थं च व्यवहारशुद्ध्यादिभिरर्थोपार्जनं विशेषतो गृहिधर्म इति निष्कर्षः ॥६३॥ साम्प्रतं मध्याह्नादिविषयं यत्कर्त्तव्यं तद्दर्शयन्नाह । मध्याह्नेर्चा च सत्पात्रदानपूर्वं तु भोजनम् । संवरणकृतिस्तद्विजैः, सार्द्ध शास्त्रार्थचिन्तनम् ॥६४॥ 'मध्याह्ने' मध्याह्नकाले, 'चः' पुनरर्थे, पूर्वोक्तविधिना विशिष्य च प्रधानशाल्योदनादिनिष्पन्नविशेषरसवतीढौकनादिना द्वितीयवारमित्यर्थः । 'अर्चा' पूजा श्रावकाधिकारप्रस्तावाज्जिनपूजा विशेषतो गृहिधर्मो भवतीत्यन्वयः । एवमग्रेऽपि । तथा सत्पात्रं साध्वादि, तस्मिन् , दानपूर्वं -दानं दत्त्वेत्यर्थः, 'भोजनम्' अभ्यवहरणम् 'तुः' एवकारार्थस्ततः सत्पात्रदानपूर्वमेव भोजनमिति निष्कर्षः, अन्वयस्तूक्त एव । अत्र च भोजनमित्यनुवादः । माध्याह्निकपूजा-भोजनयोश्च न कालनियमः, 'तीव्रबुभुक्षोर्हि बुभुक्षाकालो भोजनकालः' इति रूढेमध्याह्नादयंगपि गृहीतं प्रत्याख्यानं तीरयित्वा देवपूजापूर्वकं भोजनं कुर्वन्न दुष्यति । अत्र चायं विधिः –भोजनवेलायां साधून्निमन्त्र्य तैः सह गृहमायाति, स्वयमागच्छतो वा मुनीन् दृष्ट्वा सम्मुखं गमनादिकं करोति । साधूनां हि प्रतिपत्तिपूर्वकं प्रतिलम्भनं न्याय्यं श्रावकाणाम् । सा चेत्थं योगशास्त्रे १. L.P.C. संशो। [मध्याह्लादिविषयं यत्कर्तव्यं तदर्शयन्नाह] अत तदनन्तरकरणीयविशेषगृहिधर्मान्तरमाह-मु० । अत्र कोष्ठकगतपाठ: C. संशोधितः पार्श्वभार्ग वर्तते, कोष्ठकबाह्यपाठ: C. मूल इति ध्येयम् । २. तुला-योगशास्त्रटीका प० ६५२ ॥ ३. "त-यो० टी० ॥ D:\new/d-2.pm5\3rd proof
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy