________________
३६८ ]
[ धर्मसंग्रहः- द्वितीयोऽधिकारः
"उस्सग्गेणं तु सड्डो उ, सचित्ताहारवज्जओ ।
इक्कासणगभोई अ, बंभयारी तहेव य ॥१॥ [ श्रा. दि. / २२६ ]
यश्चैकभक्तं कर्त्तुं न शक्नोति, स दिवसस्याष्टमे भागेऽन्तर्मुहूर्त्तद्वयलक्षणे, यामिनीमुखादौ तु रजनीभोजनमहादोषप्रसङ्गादन्तर्मुहूर्त्तादर्वागेव वैकालिकं करोति । यतो दिनकृत्य एव –
" अह न सक्केइ काउं जो, एगभत्तं जओ गिही ।
दिवससट्टमे भागे, तओ भुंजे सुसावओ" ॥१॥ [ श्रा.दि./२२७ ] वैकालिकानन्तरं च यथाशक्ति दिवसचरमं सूर्योद्गमान्तं मुख्यवृत्त्या दिवसे सति द्वितीयपदे रात्रावपि करोति, कृत्वा च सन्ध्यायां अर्द्धबिम्बदर्शनादर्वाग् पुनरपि यथाविधि जिनं पूजयति सा च दीपधूपरूपाऽवसेयेति भावः । तथा प्रतिक्रमणस्य –सामायिकं १ चतुर्विंशतिस्तवो २ वन्दनकं ३ प्रतिक्रमणं ४ कायोत्सर्ग: ५ प्रत्याख्यानं ६ चेति षड्विधावश्यकक्रियालक्षणस्य कारिता - करणं, विशेषतो गृहिधर्म इति सम्बन्धः । अयं भावः - सन्ध्यायां जिनपूजनानन्तरं श्रावकः साधुपार्श्वे पोषधशालादौ वा गत्वा प्रतिक्रमणं करोति, प्रतिक्रमणशब्दश्चावश्यकविशेषवाच्यपि अत्र सामान्येन सामायिकादिषड्विधावश्यकक्रियायां रूढः, अध्ययनविशेषवाचिनोऽपि प्रतिक्रमणशब्दस्य नोआगमतो भावनिक्षेपमपेक्ष्य षडावश्यकरूपज्ञानक्रियासमुदायप्रवृत्तेरविरोधात् क्रियारूप एकदेशे आगमस्याभावान्नोआगमत्वं, नोशब्दस्य देशनिषेधार्थत्वात् उक्तं च -" किरिआऽऽगमो ण होइ, तस्स णिसे मि नोसद्दोत्ति[ ] तत्र सामायिकम् - आर्त्तरौद्रध्यानपरिहारेण धर्मध्यानकरणेन शत्रुमित्रकाञ्चनादिषु समता, तच्च पूर्वमुक्तं । चतुर्विंशतिस्तवः – चतुर्विंशतेस्तीर्थकराणां नामोत्कीर्त्तनपूर्वकं गुणकीर्त्तनं, तस्य च कायोत्सर्गे मनसाऽनुध्यानं शेषकालं व्यक्तवर्णपाठः, अयमपि पूर्वमुक्तः । वन्दनं – वन्दनायोग्यानां धर्माचार्याणां पञ्चविंशत्यावश्यकविशुद्धं द्वात्रिंशद्दोषरहितं नमस्करणं, तदप्युक्तमेव ।
,
प्रतिक्रमणं –प्रतीत्युपसर्गः प्रतीपे प्रातिकूल्ये वा, "क्रमू पादविक्षेपे” [ धा० पा० ३८५ ] अस्य प्रतिपूर्वस्य भावे ल्युडन्तस्य प्रतीपं क्रमणं, अयमर्थः - शुभयोगेभ्योऽशुभयोगान्तरं क्रान्तस्य शुभेष्वेव क्रमणात् प्रतीपं क्रमणं प्रतिक्रमणम् । यदाह –
१. पूजा च-L.P. संशो० ॥ * * चिह्नद्वयमध्यवर्तिपाठः मु० मध्ये कोष्ठके [ ] L. C. प्रतौ पार्श्वभागे । २. विशेषतो गृहिधर्म इति सम्बन्ध: -L.P. नास्ति । ३. तुला - आवश्यकचूर्णिः प०५२, आवश्यकहारिभद्रीय वृत्ति: प० ५५१, योगशास्त्रटीका प० ६८८, प्रवचनसारोद्धारवृत्तिः भा० १५० १०३ ॥
D:\new/d-2.pm5\3rd proof