Book Title: Dharma Sangraha Part 1
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 416
________________ ३७६ ] [ धर्मसंग्रहः- द्वितीयोऽधिकारः मङ्गलं' इत्यादि भणति । ततो ओघतोऽतिचारालोचनार्थं 'इच्छामि पडिक्कमिउं' इत्यादि, विभागालोचनार्थं तु तदनु ईर्यापथिकीम्, ततश्च शेषाशेषातिचारप्रतिक्रमणार्थं मूलसाधुप्रतिक्रमणसूत्रं' पठति, आचरणादिनैव चेयं भिन्ना रीति: । प्रतिक्रमणसूत्रं च तथा भणनीयम्, यथा स्वस्य पठतः शृण्वतां च परेषां संवेगभराद् रोमाञ्चो भवति । तदुक्तं दिनचर्यायाम् - "पभणंति तहा सुत्तं, न केवलं तेसि तृह व अन्नेसिं ! । जह नयणजललवेणं, पए पए हुन्ति रोमंचो ( चा ) " ॥१॥ [ दे. य. दि. / ३३३ ] तदनु सकलातिचारनिवृत्त्याऽपगततद्भारो लघुभूत उत्तिष्ठति, एवं द्रव्यतो भावतश्चोत्थाय अब्भुट्ठिओमि'इत्यादिसूत्रं प्रान्तं यावत् पठति । ततः प्रतिक्रान्तातिचारः श्रीगुरुषु स्वकृतापराधक्षमणार्थं वन्दनकं ददाति । प्रतिक्रमणे हि सामान्यतश्चत्वारि वन्दनकानि द्विकरूपाणि स्युः । तत्र प्रथममालोचनवन्दनकम् १, द्वितीयं क्षमणकवन्दनकम् २, तृतीयमाचार्यादिसर्वसङ्घस्य क्षमणकपूर्वमाश्रयणाय ३, चतुर्थं प्रत्याख्यानवन्दनकमिति ४ । ततो गुरून् क्षमयति पूर्वोक्तविधिना । तत्र पञ्च(त्रि)कमध्ये तु ज्येष्ठमेवैकम्, आचीर्णाभिप्रायेणेदमुक्तम्, अन्यथा तु गुरुमादिं कृत्वा ज्येष्ठानुक्रमेण सर्वान् क्षमयेत्, पञ्चप्रभृतिषु सत्सु त्रीन् गुरुप्रभृतीन् क्षमयेत्, इदं च वन्दनकम् 'अल्लिआवणवंदणयं' इत्युच्यते । आचार्यादीनामाश्रयणायेत्यर्थ इत्युक्तं प्रवचनसारोद्धारवृत्तौ [ भा० १० प० १०६ ] । ततश्च कायोत्सर्गकरणार्थं " पडिक्कमणे १ सज्झाए २, काउस्सग्गावराह ४ पाहुणए" [ गु.भा./१७पू. ] इत्यादिवचनाद्वन्दनकदानपूर्वकं भूमिं प्रमृज्य 'जे मे केइ कसाया' इत्याद्यक्षरसूचितं कषायचतुष्टयात् प्रतीपं क्रमणमनुकुर्वन्निव पाश्चात्यपदैरवग्रहाद् बहिर्निःसृत्य ‘आयरिअउवज्झाए’ इत्यादि सूत्रं पठति । तत्राद्यश्चारित्रशुद्धये कायोत्सर्गो विधीयते, चारित्रं च कषायविरहेण शुद्धं भवति, तदभावे तस्यासारत्वात् । उक्तं च - "सामन्नमणुचरंतस्स, कसाया जस्स उक्कडा हुंति । मन्नामि उच्छुपुप्फं व, निष्फलं तस्स सामण्णं" ॥१॥ [ दश.नि./३०५ ] ततश्च चारित्रप्रकर्षकृते कषायोपशमाय च 'आयरिअउवज्झाए' इत्यादि गाथात्रयं पठित्वा चारित्रातिचाराणां 'पडिकमणसुद्धाणम्' इतिवचनात् प्रतिक्रमणेनाशुद्धानां शुद्धिनिमित्तं कायोत्सर्गं चिकीर्षुः 'करेमि भंते! सामाइअम्' इत्यादि सूत्रत्रयं च पठित्वा १. [पठतः शृण्वतां च] - मु० मध्यकोष्ठके C. प्रतौ पार्श्वभागे ॥ २. रोमंचो -L.P.C. ॥ ३. पञ्चक' L.P.C. ॥ ४. आचीर्णं तु यदि पञ्चकादिगणो भवति तदा त्रितयं क्षमयति, अथ पञ्चकमध्ये तदा ज्येष्ठमेवैकमिति । इति प्रवचनसारोद्धारवृत्तौ भा० १ ० १०५ -६ ॥ D:\new/d-2.pm5\3rd proof

Loading...

Page Navigation
1 ... 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500