Book Title: Agam 44 Chulika 01 Nandi Sutra
Author(s): Chandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
" उल्लेऊण न सक्को गज्जइ इय सेलमुग्नओऽरण्णे । तपयमेहो गतुं तस्सुपरि पडई ॥२॥ रविउत्ति ठिओ मेहो उल्लोमि नवत्ति गज्जइ य सेलो।
सेलपमं माहिस्सं निमिज्जई गाहगो एवं ॥" इह क्वचिदरण्ये पर्वतासन्नप्रदेशे समंतान्निविडो मुद्रववृत्तत्वलक्ष्णत्वादिधर्मयुक्तः किंश्चिद्भूतले निमग्नः किश्चित्तु सप्रकाशश्चिकचिकायमानो बदरादिप्रमाणलधूपलरूपों मुद्गशैलः किलासीत्स च गति सक्षिप जल्पति।
कथमित्याह-अहमार्दीकर्तुं जलेन मेत्तुं केनाऽपि न शक्य इति । तच्च मुद्गशैलस्य सम्बन्धे गर्ववचः कुतश्चिन्नारदकल्पाच्छत्वा संवर्तको नाम मेघस्तद्गर्वमद्याहमपनयामीति सम्प्रधार्य तं मुद्गशैलं गत्वा-सम्प्राप्य तस्यैवोपरि पतति निरन्तरं मुशलप्रमाणधाराभिर्वर्षतीत्यर्थः । संव. सकमेघश्चोत्सर्पिण्या शुभीभवति काले, पूर्वदग्धभूम्याः श्वसनार्थ वर्षतीत्यागमः प्रतिपावते, तेन भरतक्षेत्रे च प्रचुरमपि सर्वमशुभानुभावं भूमिरूक्षतादाहादिकं प्रशस्तस्वकीयोदकेन संवर्तयति-नाशयतीति संवर्तक इत्युच्यते, यतस्तस्य सम्बन्धि जलमतीव भूम्यादेवकं वासकं भवतीति विशेषस्ततस्तस्यैह ग्रहण, एवं च सप्ताहोरात्राणि महावृष्टिं कृत्वा 'ठिओ मेहो'त्ति, स्थितो वृष्टेरुपरतोऽसौ मेघः, कया बुद्धयेत्याह-'दविउत्ति । द्रावितः खण्डशो नीतो मयासौ मुद्गशैल इति अभिप्रायेणेत्यर्थः, पानी वाऽपसृते सुतरामुग्जक्लीभूतोऽसौ चिकचिकायमानो मुद्रशैलः पुनरपि गर्जति फॅथमित्याह ॥ 'उलोमि नबति। आदोस्म्यहं न चेति सम्यग् निरीक्षस्व, भोः पुष्करावर्त : किमित्येवमेव स्थितोऽसि । तिलतुषत्रिभागमात्रमपि ममाद्यापि न भियत इति निर्लज्जितो विलक्षीभूतः । स्वस्थानमुपाश्रितो मैषः । तदेवं मुद्रशैलोदाहरणमभिधायोपनयमाह ॥ 'सेलसममित्यादि । यस्य वचनकोटिभिरपि चित्तं न भियते । एकमप्यक्षरं तन्मध्यान्न परिणमतीत्यर्थः। स एवंभूतः शैलसमो मुद्रशैलतुल्य इत्यर्थः । तं तथाभूतं शिष्यं ज्ञात्वा कश्चिद् ग्राहयतीति ग्राहको गुरुः 'आचार्यस्यैव तज्जाडचं यच्छिष्यो नावबुध्यते । गावो गोपालकेनैव कुतीर्थेनावतारिताः' । यथा तरीतुं न शक्नुवन्ति ततो गोपालस्यैव तज्जाड्यं न तासां इत्यादिश्लोकार्थविभ्रमितमतिर्गर्वादहममुं ग्राहयिस्ये इति प्रतिशाय समागतो महता च संरम्भेणाध्यापयितुमारब्धस्तथापि मुद्गशैलोपमः शैक्षोऽक्षरमपि न गृहाति। न च मनागपि स्वाग्रहप्रस्तत्वेन बुध्यते । ततश्चैवं यथा पुष्करावर्तस्तथैव सुचिरं क्लेशमनुभूय निर्विपते पराभज्यते ततो विलक्षीभूतो लज्जितश्च निवर्त्तते। तद्ग्राहणादयमाचार्यः । एवंभूतस्य च शिष्यल्प स्वार्थदाने आगमे प्रायश्चित्तमुक्तं । कुत इत्याह
आयरिहमुत्तम्मि य परिवाओ सुत्तअत्थपलिमयो । अन्नेसि पि य हाणी पुढावि न दुट्ठया वया ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112