Book Title: Agam 44 Chulika 01 Nandi Sutra
Author(s): Chandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 73
________________ नंदीसूत्र-टीकायाः यार्थः । अत्र श्रुतनिश्रुतानवग्रहादींस्तावदाह ॥ उग्गहोईय अवाओ य धारणाए व होति चत्तारि आभिणिबोहियनाणस्स भेय । वत्थू ससासेणं ॥ सूपरसादिभेदरनिर्देश्यस्याव्यक्तस्वरूपस्य सामान्यार्थस्यावग्रहणपरिच्छेदनमवग्रहः । तेनावग्रहीतस्यार्थस्य भेदविचारणं वक्ष्यमाणगत्या विशेषान्वेषणमीहा । तया ईहितस्यैवार्थस्य व्यवसायस्तद्विशेषनिश्चयोपायः । च शब्दो अवग्रहादीनां पृथक् पृथक् स्वातंत्रयप्रदर्शनार्थस्तेनैतदुक्तं भवति । अवग्रहादेरीहादय पर्याया न भवन्ति । पृथग्भेदबाधकत्वात् । अथानंतरमीहा प्रवर्तते । कथंभूतेयमित्याह ॥ भेदमार्गण भेदा वस्तुनो धर्मास्तेषां मार्गणमन्वेषणं विचारणं प्रायः काकनिलयनादयः स्थाणुधर्मा अत्र वीक्ष्यन्ते । न तु शिरःकडूयनादयः पुरुषधर्मा इत्येवं वस्तुधर्मविचारणमीह इत्यर्थः । तस्यैवेहया ईहितस्य वस्तुनस्तदनंतरमवगमनमवगमः । स्थाणुरेवायमित्यादिरूपो निश्चयोऽवायोपायोवेति तस्यैव निश्चितस्य वस्तुनोऽविच्युतिस्मृतिवासनारूपं धरणं धारणा सूत्रेऽविच्युते सूपलक्षणत्वादिति गाथार्थः ॥ तत्रामूषामिदं स्वरूपं अपायानंतरमवगतमर्थमविच्युत्या अजघन्योत्कृष्टमंतर्मुहूर्तमानं कालं धारयतो धारणा अविच्युस्याख्या ॥ तमेवार्थमुपयोगात् च्युतं जघन्येनांतर्मुहूर्तादुत्कृष्टतोऽसंख्येयकालात्परतः स्मरतः धारणा स्मृत्याख्या पायावधारितमेवार्थ पूर्वापरालोचितं हृदि स्थापयतो धारणा वासनाख्या नवरं संख्येयवर्षायुषां संख्यकालस्मृतिवासनारूपा धारणा भवति । संख्येयवर्षायुषां संख्येयकालस्मृतिवासनारूपा, धारणा भवति । असंख्येयवर्षायुषां असंख्यकालं । द्विरूपापीयं धारणा भवति । पुठ्ठगाहा । श्रोत्रंद्रियं कर्तृ शब्दं कर्मतापन्नं शृणोति । कथंभूतमित्याह । स्पृश्यत इति स्पृष्टस्तं स्पृष्टं तनौ रेणुवदालिगितमामेवेत्यर्थः । इदमुक्तं भवति । स्पृष्टमात्राण्येव शब्दद्रव्याणि श्रोत्रमुपलभते । यतो घ्राणादींद्रियविषयभूतद्रव्येभ्यस्तानि सूक्ष्मागि बहूनि भावुकानि च । पटुतरं वा श्रोत्रंद्रियं विषयपरिच्छेदे । घ्राणेंद्रियादिगणादिति । श्रोत्रंद्रियस्य चेह कर्तृत्वाशब्दश्रवणान्यथानुपपत्तेर्लभ्यते । एवं घ्राणेंद्रियादिष्वपि वाच्यं । तानि पुनः कथं गंधादिकं गृह्णतीत्याहगंध्यत इति गंधस्तमुपलभते घ्राणेंद्रियं । रस्यत इति रसस्तं व गृह्णाति रसनेंद्रियं । स्पृश्यत इति स्पर्शस्तं च जानाति । स्पर्शनेंद्रियं कथंभूतं गंधादिकमित्याह । बद्धस्पृष्टं तत्र स्पृष्टमिति पूर्ववदेव । बद्ध तु गाढतरमाश्लिष्टं । आत्मप्रदेशैर्गाढतरमाग्रहीतमेवोपलभते घ्राणेंद्रियादिकमित्येवं व्यागृणीयात्प्रज्ञापकः । यतो घ्राणेंद्रियादिविषयभूतानि गंधादिद्रव्याणि शब्दद्रव्यापेक्षया स्तोकानि बादराण्यभावुकानि च विषयपरिच्छेदो श्रोत्रापेक्षया अपटूनि च घ्राणादीन्यतो बद्धस्पृष्टमेव गंधादिद्रव्यसमूहं गृह्णति न पुनः स्पृष्टमात्रमिति भावः । ननु यदि स्पर्शनानंतरं बद्धं गृह्णाति तहिं पुठ्ठबद्धमिति दिति निश्चितस्यैव वस्तुनो विव्युतादिरूपेण धरणं धारणा । एवकारः क्रमद्योतनपरः । अवग्रहादीनामुपन्यासस्यायमेव क्रमो नान्यः । अवगृहीतस्यैवेहनादीहितस्यैव निश्चयानिश्चितस्यैव धरणादिति । एवमेतान्याभिनिबोधिकज्ञानस्य चत्वार्येव वस्तूनि Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112