Book Title: Agam 44 Chulika 01 Nandi Sutra
Author(s): Chandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 75
________________ ६४ नंदोसूत्र-टीकायाः इदमुक्त भवति । भाषकस्यान्यस्य वा. भेर्यादेः समश्रेणिव्यवस्थितः । श्रोता तं. शब्दं पुरुषश्च भेर्यादिसंबंधितं ध्वनि शृणोति । त मिश्रकं शृणोतीत्यवगन्तव्यं । भाषकाद्युत्सृष्टशब्दद्रव्याणि तद्वामितापांतरालस्थद्रव्याणि वेत्येवं मिश्र शब्दद्रव्यराशिं शृणोति न तु चामकमेव वाम्यमेव वा केवलमित्यर्थः ॥ वीसेढी पुणेत्यादि । मंचा क्रोशंतीत्यादिन्यायाद्विश्रेणिव्यवस्थितः श्रोतापि विश्रेणिरुच्यते । स विश्रेणी: पुनः श्रोता शब्दं नियमानियमेन पराघाते वासनायां सत्यां शृणोति । इदमुक्तं भवति यानि भाषकोत्सृष्टानि शब्दद्रव्याणि भेर्यादिशब्दद्रव्याणि वातः पराघाते वासनाविशेषे सति यानि वासितानि समुत्पन्नशब्दपरिणामानि द्रव्याणि ता अन्य च ( ? ) विश्रेणिस्थः शृणोति न तु भाषकाद्युत्सृष्टानि तेषामनुश्रेणिगामित्वेन विदिग्गमनासंभवान्नच कुटयादिप्रतिघातस्तेषां विदिग्गतिनिमित्तं संभवति । लेष्ट्वादिबादरद्रव्याणामेव तत् कुटयादि प्रतिघातसंभवादेषां च सूक्ष्मत्वान्न च वक्तव्यं द्वितीयादिसमयेषु तेषां स्वयमपि विदिक्षुगमनसंभवात्तत्स्थस्यापि मिश्रशब्दश्रवणसंभव" इति । निसर्गसमयानंतरं समयांतरेषु तेषां भाषापरिणामेनानवस्थानाद्भाष्यमाणैव भाषा । भाषा समयानंतरं भाषा अभाषेवेति वचनाद्यद्यपि चउहि समएहिं लोगो भासाए निरंतरं तु होइ फुडो इति वक्ष्यति तत्राप्ति द्वितीयादिसमयेषु भाषाद्रव्यैर्वासितत्त्वात्तेषां भाषात्वं द्रष्टव्यं ।। अत्राह ॥ ननु यदि वक्त्रुत्सृष्टानि भाषाद्रव्याणि प्रथमसमये दिक्ष्वेव गच्छंति समयांतरं नावतिष्ठते । तहि तद्वासितद्रव्याणि द्वितीयसमये विदिक्षु गच्छंति ततश्च दिग्विदिग्व्यवस्थितयोः समयभेदेन शब्दश्रवणं प्राप्नोति अविशेषेण च सर्वोपि शब्दं श्रुण्वन्नुपलभ्यते नैष दोषः समयादिकालभेदस्यातिसूक्ष्मत्वेनालक्षणादिति । भवत्वेवं तथापि भाष्यमाणैव भाषेति वचनान्निसर्गसमयवत्तिन्येव भाषा । ततो विश्रेणिस्थोऽभाषां शृणोति इत्यायातं । नैतदेवं भाषाद्रव्यैर्वासितानामपि द्रव्याणां 'भाषा अविशेषाद्भाषात्वं न विरुध्यते । अतएव । वीसेढी पुण सद्दमित्यत्र पुनरपिच्छन्दग्रहणं तत्प राघातवासितद्रव्याणामपि तथाविधशब्दपरिणामख्यापनार्थ कृतमिति तावद्वयमवगच्छाम'स्तत्त्वं तु बहुश्रुतादयो विदंतीति घ्राणादीन्यपींद्रियाणि गंधादिद्रव्याणि मिश्राण्याददते तेषां चानु श्रेणिगमननियमो नास्ति । बादरत्वाद्वा वातायनोपलभ्यमानरेणुवदिति वृद्धटीकाकार इति गाथार्थः ।। . ईहा अपोह वीमंसा मग्गणाय गवसणा । सण्णा सई मई पन्ना सव्वं आभिणिबोहियं । ईहि चेष्टायां । ईहनमीहा सतामन्वयिनां व्यतिरेकिणां वार्थानां पर्यालोचना अपोहनमपोहो निश्चयः । विमर्षणं विमर्षः अपायात्पूर्वः ईहायाश्चोत्तरः प्रायः ॥ शिरःकडूयनादयः पुरुषधर्मा इह घटते इति संप्रत्ययः तथा मार्गणमन्वयधर्मान्वेषणं मार्गणं चशब्दः 'समुच्यार्थः गवेषणं व्यतिरेकधर्मालोचनं गवेषणा ।' तथा 'संज्ञानं संज्ञा । अवग्रहोत्तर Jain Education International For Private & Personal Use Only www.jainelibrary.org


Page Navigation
1 ... 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112