Book Title: Agam 44 Chulika 01 Nandi Sutra
Author(s): Chandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 105
________________ नंदीसूत्र - टीकायाः दिकं मुखाभरणाद्यलंकृतं अवास्थासका आदर्शकः । चामरेचतन्मण्डितकटीकं । दासः स्वदासी सुतः दासी कर्मकरी रूपादिगुणान्विता । तां सर्वालङ्कारभूषितां कृत्वा अनुजानीयात्समर्पयेत्कस्यचिद्राजादिस्तुष्टः सन् सेयं मिश्रिकी लौकिकी द्रव्यानुज्ञा हस्त्यादेः सचेतनत्वादाभरणादेरचेतनत्वादुभययोगमिश्रद्रव्यता । कुप्रावचनिक्यां आयरिएति । आचार्यो दर्शनान्तरीयो धिग्जातीयादिः उपाध्याय गीतनृत्तादिकला शिक्षयिता । यदा तुष्टः सन्नश्वादिकमनुजानीयात्तदाकुप्रावचनिकी सचित्तद्रव्यानुज्ञा । स एव यदा आसनं आसन्दकादि शयनं खट्वादि अनुजानीयातदाऽचित्तद्रव्यानुज्ञा सएवाश्वाद्याभरणाद्यलंकृतं यदनुजानीते । तदामिश्रकी द्रव्यानुज्ञा । लोकोतरास्साघवस्तेषामियं लोकोत्तरिकी । साधवश्चाचार्यादिभेदतः पञ्चविधा भवन्ति । तानेव दर्शयति । आयरिए इत्यादि । एते हि यदा सचित्ताचित्तमिश्रान्यतरद्रव्यमनुजानते । तदा तत्तद्भेदानुज्ञा भवति । नवरं आचार्योऽनुयोगाचार्यः उपाध्यायः सूत्रपाठयिता येषु तपः संयमादिषु यः साधुग्यो भवति तं तत्र प्रवर्त्तयति अक्षमं च निवर्त्तयति । स गच्छस्थ साधुतप्तिपरः प्रवर्त्तकः । यदाह ॥ तवसंजमजोगेसुं जो जोगो तत्थ तं पवत्तेइ असहं च निवत्तेइ । गणतत्तिल्लो पवत्तीओ । प्रवर्त्तकव्यापारितार्थव्यवस्थित साधूनामेव कथंचित् प्रमाद्यतां तपःसंयमादिषु यस्तान् स्थिरीकरोति स स्थविरः । गच्छस्यैवान्नोपध्यादि संपादनपरो य आहिण्डते । गच्छप्रयोजनेविषादी गीतार्थः स गणावच्छेदकः । शेषं निगदसिद्धं । जाव से तं दव्वाणुन्नत्ति | क्षेत्रानुज्ञा तयो राजादिर्यस्यपरितुष्टः सन् क्षेत्रं ग्रामनगरादिरूपं तन्मध्येपि यावन्मात्र तदंशतया अनुजानीते मुत्कलयति समर्पयति सा क्षेत्रानुज्ञा । यद्वा यस्मिक्षेत्रेऽनुज्ञापदं व्याख्या यते तदपि क्षेत्र क्षेत्रानुज्ञा ॥ कालानुज्ञायां यो राजादिर्यस्य तुष्टः सन् कालमनुजानीते । सर्वकालं मुस्कलयति । त्वया यावज्जीवमपि मम न दातव्यमिदं करादीति । जत्तियं वा कालति । यथा दुर्लभमांसव्यतिकरे परिमित कालराज्यमभयकुमारमन्त्रियाचिते श्रेणिकेन नियतदिनरूपकालानुज्ञा राज्यं प्रत्यभय कुमाराय कृता । यस्मिन् वा वयते सेयं कालानुज्ञा ॥ भावानुज्ञा क्षायोपशमिकभाववयवारादि श्रुतानुज्ञाविषयां । ततश्च य आचार्यादिर्यस्य शिष्यस्य तुष्टः सन् भावेन कर्मनिर्जराभिप्रायेण मनोवाक्कायैः करणकारणानुमतिभिः शुद्धेन नत्वैहलौकिकवस्त्रादिलिप्सया || आचारादिकं । यावद्दृष्टिवादं वानुजानाति । द्रव्यगुण पर्यवैर्मुकलयति । व्याख्यानाय । अन्येषामध्यायपनाय च सेयं भावानुज्ञा ॥ कानुज्ञा सम्प्रत्यनुज्ञाया यतः प्रवृत्तिरस्यामवसर्पिण्यां प्रथमं जाता । तदभिधित्सुः । प्रश्नानि तावदाह ॥ किमणुन्न गाहा ॥ किमनुज्ञाख्यं वस्तूच्यते । तच्च षड्विधस्वेन वणितमेव । कस्यानुज्ञा क्रियते । यो हि गाम्भीर्यधैर्यक्षमादिगुणान्वितो भवति । तस्येयं भवति । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 103 104 105 106 107 108 109 110 111 112