Book Title: Agam 44 Chulika 01 Nandi Sutra
Author(s): Chandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
दुर्गपदव्या
अथ केयं भव्यशरीरद्रव्यानुज्ञेति पृष्टे सत्याह । जे जीवे इत्यादि । विवक्षित पर्यायेण भविष्यतीति भव्यो विवक्षितपर्यायार्हस्तयोग्य इत्यर्थः । तस्य शरीरं तदेवभाविभावानुज्ञा पदार्थवेत्रत्वकारणत्वाव्यानुज्ञा | भव्यशरीरद्रव्यानुज्ञा किं पुनस्तदित्यत्रोच्यते । यो जीवो योनिजन्मत्वनिष्क्रान्तोनेनैव शरीरसमुच्छ्रयेण आत्तेन गृहीतेन जिनदृष्टेन तीर्थकराभिमतेन भावेन तदाचरण - कर्मक्षयोपशमलक्षणेनानुज्ञेतिपदमागामिनि काले शिक्षिष्यते अध्येष्यते । साम्प्रतं तु न तावदद्यापि शिक्षते । तज्जोवाधिष्ठितं शरीरं द्रव्यानुज्ञा । नोआगमत्वं चात्राप्यागमाभावमाश्रित्य मन्तव्यं । तदानीं तत्र च पुष्यागमाभावात् । नो शब्दस्य चात्रापि सर्वनिषेधवचनत्वादिति यथा को दृष्टान्त इतिनिर्वचनमाह । यथाऽयं घृतकुम्भोभविष्यतीत्यादि एतदुक्तं भवति । यथा घृते मधुनि वा प्रक्षेप्तुमिष्टे तदाधारत्वपर्याये भविष्यत्यपि तदस्तित्वपरतयानुवृत्त्या द्रव्यानुज्ञेयमुच्यते इति भावः । निगमयन्नाह || सेत्तमित्यादि ॥ तदेतद् भव्यशरीरद्रव्यानुज्ञेति । उक्तो नोआगमतो द्रव्यानुज्ञाद्वितीयभेदः ।
·
तृतीयभेदनिरूपणार्थमाह । से किं तमित्यादि ॥ यत्र ज्ञशरीर भव्यशरीरयोः सम्बन्धि पूर्वोक्तं लक्षणं न घटते तत्ताभ्यां व्यतिरिक्ता भिन्ना द्रव्यानुज्ञोच्यते । सा च त्रिविधा प्रज्ञप्ता तद्यथा । लौकिकी कुप्रावचनिकी लोकोत्तरिकी च । तत्र प्रथमभेदं जिज्ञासुराह । से किं तमित्यादि || सुगमं नवरं । राजा चक्रवर्त्ती वासुदेवो बलदेवो महामाण्डलि - कश्च । इश्वरो । युवराजः राज्ञो द्वितीयस्थानवर्त्ती । सामान्य माण्डलिकोऽमात्यश्च । अन्ये व्याचक्षते । अणिमाद्यष्टविधैश्वर्ययुक्त ईश्वरः । परमतुष्टनरपतिप्रदत्तरत्नालंकृत सौवर्णपट्ट विभूषितशिरास्तलवरः । यस्य पार्श्वत आसन्नमपरं ग्रामनगरादिकं नास्ति तत्सर्वतश्छिन्नं जनाश्रयविशेषरूपं मडम्बमुच्यते । तस्याधिपतिर्माडम्बिकः । कतिपयकुटुम्बप्रभुः कौटुम्बिकः । इभो हस्ती तत्प्रमाणं द्रव्यमर्हतीतीभ्यः । यस्य सत्कपुञ्जीकृत हिरण्यरत्नादिद्रव्येणान्तरितो हस्त्यपि न दृश्यते सोऽधिकतर द्रव्यो वा इभ्य इत्यर्थः ॥ श्रीदेवताध्यासित सौवर्णपट्टविभूषितोत्तमाङ्गः पुरज्येष्ठो वणिग्ग्वशेषः श्रेष्ठी । हस्त्यश्वरथपदाति समुदाय लक्षणायाः सेनायाः प्रभुः सेनापतिः । गणिमं धरिमं मेज्जं पारिच्छं चेव दव्वजायंतुघेत्तूणं लाभत्थी वच्चति जो अन्नदेसं तु । निवबहुमओ पसिद्धो दीणाणाहाण वच्छलो पंथे । सो सत्थवाहनामै घणोव्व लोए समुव्वहइ ॥ एतल्लक्षणयुक्तः सार्थवाहः एतदन्यतरः कश्चिद्राजादिः कचिद् व्यतिकरे कस्यचित्तुष्टः सन्नश्वादिकं परिभोगयानुजानीयासेयं सच्चित्तानुज्ञा ॥
यदा राजादिरेव च्छत्रचामराद्यनुजानीयात्कस्यचित्सेयमचित्तानुज्ञा ॥ नवरं कंसंवत्ति । कांस्य कांस्यपत्र्यादिकं मणयश्चन्द्रकान्ताद्याः । मौक्तिकानि शंखाश्च प्रसिद्धाः श्री प्रवालव - दिगुणोपेतंविद्रुमं । रत्तरयणं रक्तरत्नं । पद्मरागादिकं सत्सारं शोभनसारं शूलमण्यादिकं । स्वापितेरिच्छुजातं । हस्त्या
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 102 103 104 105 106 107 108 109 110 111 112