Book Title: Agam 44 Chulika 01 Nandi Sutra
Author(s): Chandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 106
________________ ramananamannaamanarramananamannaamanuman............ दुर्गपदव्याख्या कियति च काले प्रवर्तितानुज्ञा । अवसप्पिण्यां तृतीयारकपर्यन्ते । केन प्रवर्त्तिता क कस्येत्याह । आदीत्यादि । उत्पन्नज्ञानेनादितीर्थकरेण भगवता ऋसभसेनस्य पुण्डरीकस्य पुरिमतालनगरे अनुज्ञा प्रवर्त्तिता अनुज्ञा कृता । द्वादशाङ्गविषया शिष्यविषया ॥ इदानीमनुज्ञाया एकार्थाभिधायि गाथाद्वयमाह ॥ अणुन्ना गाहा ॥ आद्यगाथायां चतुर्दशानुज्ञाभिधानानि । द्वितीयायां षट् सर्वाणि । २० तद्यथा ।। अनुज्ञा १ उन्नमनी २ नमनी ३ नामनी ४ स्थापना ५ प्रभव ६ प्रभावना ७ प्रचार ८ तदुभयं ९ हितं १० मर्यादा ११ न्याय १२ मार्गश्च १३ कल्पश्च १४ सङ्ग्रहः १५ संवरः १६ निर्जरा १७ स्थितिकरणं १७ जीतवृद्धिपदं १९ पदप्रवरं २० इति विंशतिरेतेषां च पादानामर्थः । सम्प्रदायाभावान्नोच्यते ॥ इति समाप्ता शीलभद्रप्रभु श्री धनेश्वरसूरिशिष्य श्री श्रीचन्द्र-सूरिविरचिता नन्दिटीकाया दुर्गपदव्याख्या ॥ स्वंकष्टेऽतिनिधाय कष्टमधिकं मामेन्यदाजायतां । व्याख्यानेस्य तथाविधेस्तु मनसामल्पश्रुतानाममुं ॥ इत्यालोचयता तथापि किमपि प्रोक्तं मया तत्र च । दुर्व्याख्यानविशोधनं विदधतु प्राज्ञाः परार्थोद्यताः १ दुःसम्प्रदायादसदूहनाद्वा । प्रकाशितं यद्वितथं मयेह । तद्वीधनैर्मामनुकम्पयद्भिः शोध्यं ममार्थक्षतिरस्तुनैवं ॥२॥ ग्रन्थाग्रं । ३३०० आकरो नररत्नानां कीर्तिकल्लोलिनीपतिः । श्रीमानूकेशवंशोस्ति रत्नाकर इवापरः ॥१॥ श्रेष्ठी तस्मिन्नुदेतिस्म प्रतिष्ठावल्लिमण्डपः । भादाभिधानश्राद्धानां धोरणीषु धुरन्धरः ॥२॥ शचीवेन्द्रस्य तस्यासीत् सहजूः सहचारिणी। गङ्गातरङ्गा यच्छोलभङ्गीमङ्गीकरन्ति चेत् ॥३॥ तयोस्त्रयो नयोपेतधियोमी तनयोत्तमाः । धनाभीमाभिधौझांटाकश्चेति प्रकटप्रभाः ॥४॥ सधर्मचारिणी तेषु धनसाधोरजायत । सारूः सारूपकलया रम्भासारूप्यधारिणी ॥५॥ शुक्तिर्मुक्ताचयमिव धौरिव प्रहमण्डलं । रत्नगर्भेव : रत्नौपं. सा प्रसूत[सुत]द्वयं ॥६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 104 105 106 107 108 109 110 111 112