Book Title: Agam 44 Chulika 01 Nandi Sutra
Author(s): Chandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
नंदीसूत्र-टीकायाः
मेघाभिधानः प्रथमः प्रविष्टपुण्यक्रियासाधनसावधानः । ववर्ष यो मेघ इवाखिलेषु क्षेत्रेष्वमात्रद्रविणाम्बुपूरैः ॥७॥ द्वितीयश्चाऽद्वितीयश्रीः सदाकः सदनं धियां । तपसि ब्रह्मचर्ये च तुल्यो यस्यास्तु कोधुना ॥८॥ कमला केशवस्येव शिवस्येव शिवाथवा । मेधाकस्य प्रियतमा भोलीनामादिमाभवत् ॥९॥ तत्पुत्रोजनिमाणिक्यश्चाणक्य इव बुद्धिमान् । कमलाईद्धितीयास्ति हीरो वीरश्चतत्सुतौ ॥१०॥ व्यवहारिहारिहारिणि निवसन् श्रीस्तम्भतीर्थवरनगरे । प्रथमाभिधेयतामयमवाप मेघाभिधः कृतिनां ॥११॥ श्रीपावकाचलशृङ्गार श्रीसम्भवजिनालये । तेनाष्टौ देवकुलिकाः कलिकालहूताकृताः ॥१२॥ संसारपारदस्य श्रीसोपारकपुरेशितुः । सोऽपारद्र विणैर्जीणा(ण)चैत्य(त्यं)चक्रे पुनर्नवं ॥१३॥ चतुर्विंशतितीर्थेशप्रतिमा मतिमानसौ । दृष्टमात्रकृतोद्वेगविरमा निरमापयन् ॥१४॥ स्पर्द्धया ह्वयमानेव ज्योत्स्नामौज्वल्यशालिनी । सुरत्राणपुरे शाला विशाला तेन निर्ममे ॥१५॥ चतुर्विंशतिवारांश्च माहेन्द्रातटिनीतटे। अकारयदमारिं यः सर्वामारिं न्यवारयत् ॥१६।। अमात्रास्तीर्थयात्राश्चाऽनघाः श्रीसङ्घभक्तयः । यास्तेनातेनिरे कस्तद्वयक्तिं वक्तुमलं भवेत् ॥१७॥ श्रीमत्तपागणनभोङ्गणभास्कराणां श्रीसोमसुन्दरयुगोत्तमसूरिराजाम् । सम्यग् निशम्य श्रुतभक्त्युपदेशलेशमुल्लासितप्रमदमेदुरितोदरेण ॥१८॥ श्रीसिद्धान्तादिकग्रन्थलक्षं लेखयता सता । तेन श्रीमेघनादेन लेखितः पुस्तकोप्यसौ ॥१९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 105 106 107 108 109 110 111 112