Book Title: Agam 44 Chulika 01 Nandi Sutra
Author(s): Chandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
दुर्गपदव्याख्या नत्वाच्चेत्यतो विशेषवादिनैगममतसाम्येनातिदिष्टः । अत्रचातिदेशो नैवेष्टार्थसिद्धेफ्रन्थलाघवार्थ सङ्ग्रहमतिक्रम्य व्यवहारोपन्यासः कृत इति भावनीयं । संगहस्सेत्यादि । सर्वमपि भुवनत्रयान्तवर्त्तिवस्तुनिकुरुम्बं संगृह्णाति सामान्यरूपतयाऽध्यवसतीति सङ्ग्रहः । तस्य मते एकोवाऽनेकेवाऽनुपयुक्तो वा यदागमतो एका द्रव्यानुज्ञा वहव्यो वा तत् किमित्याह । से एगोत्ति । सेयमेका द्रव्यानुज्ञा । इदमत्र हृदयं । सङ्ग्रहनयः सामान्यमेवाभ्युपगच्छति । न विशेषानभिदधाति च । सामान्याद्विशेषा व्यतिरिक्ता वा स्युरख्यतिरिक्ता वा । यद्याद्यः पक्षः । तर्हि न सन्त्यमी निःसामान्यत्वात्खरविषाणवत् । अथापरः पक्षः । तहिं सामान्यमेव ते । तदव्यतिरिक्तत्वात्सामान्यस्वरूपवत्तस्मात्सामान्यव्यतिरेकेण विशेषासिद्धेर्याः काश्चन द्रव्यानुज्ञास्ताः तत्सामान्याऽव्यतिरिक्तत्त्वादेकैव सङ्ग्रहस्य द्रव्यानुज्ञेति । उज्जुसुयस्सेत्यादि । ऋज्वतीतानागतपरकीयपरिहारेण प्राञ्जलं वस्तु सूत्रयत्यभ्युपगच्छतीति । ऋजुसूत्रः । अयं हि वर्तमानकाल भावे व्यवस्वभ्युपगच्छति नानीतविनष्टत्वानाप्यनागतमनुत्पन्नत्वात् । वर्तमानकालभाव्यपि स्वकीयमेव मन्यते । स्वकार्यसाधकत्वात् स्वधनवत् परकीयं तु नेच्छति । स्वकार्याप्रसाधकत्वात् परधनवत्तस्मादेको देवदत्तादिरनुपयुक्तोऽस्य मते आगमत एका द्रव्यानुज्ञास्ति । पुहतं नेच्छइति । अतीतानागतभेदतः परकीयभेदतश्च पृथक्त्वं पार्थक्यं नेच्छत्यसौ किं तहिं वर्तमानकालीनस्वगतमेववाभ्युपैतितच्चैकमेवेत्तिभावः । तिहं सद्दनयाणमित्यादि । शब्दप्रधाना नयाः शब्दनयाः शब्दसमभिरूवंभूतास्तेहि शब्दं प्रधानमिच्छन्तीत्यर्थ तु गौणं । शब्दवशेनैवार्थप्रतीतेस्तेषां त्रयाणां शब्द नयानां नायकोऽथवाऽनुपयुक्त इत्येतदवस्तुन सम्मवतीतिदमित्यर्थः । कन्ह त्ति । कस्मादेव. मुच्यते इत्याह । यदि ज्ञायकस्तर्खनुपयुक्तो न भवति । ज्ञानस्योपयोगरूपत्वादिदमत्रहृदयं अनुज्ञा पदार्थज्ञस्तत्र चानुपयुक्त आगमतो द्रव्यानुज्ञेति प्राग्निगीतमेतच्चामी न प्रतिपद्यते । यतो यद्यनुज्ञापदार्थ जानाति । कथमनुपयुक्तोऽनुपयुक्तश्चेत्कथंजानाति तस्योपयोगरूपत्वात् । सेयमागमतो द्रव्यानुज्ञा ॥
उक्ता आगमतो द्रव्यानुज्ञा । सम्प्रति नो. आगमतः सोच्यते । सेकिंतमित्यादि । नो शब्दोत्रागमस्य सर्वनिषेधे वर्तते । आगमश्च परिज्ञानं । अनुज्ञा पदार्थावगम इत्यर्थः । तत भागमाभावमाश्रित्य द्रव्यानुज्ञा त्रिविधा प्रज्ञप्ता । तद्यथा । ज्ञशरीरद्रव्यानुज्ञा भव्यशरीरद्रव्यानुज्ञा । ज्ञशरीरभव्यशरीव्यतिरिक्तद्रव्यानुज्ञेति । तत्राद्यामाह ॥ सेत्ति ॥
अथ केयं ज्ञशरीरद्रव्यानुज्ञा ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 100 101 102 103 104 105 106 107 108 109 110 111 112