Book Title: Agam 44 Chulika 01 Nandi Sutra
Author(s): Chandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 100
________________ दुर्गपदव्याख्या ८९ सामान्यत इदं । भूतस्य भाविनो वा भावस्य हि कारणं तु यल्लोके तदव्यं तत्वज्ञैः सचेतना - चेतनं कथितं । प्रागेव व्याख्यातेयं नन्दिशब्दार्थप्रस्तावे । तत्रागमतो नोआगमतश्चेति । आगमतोऽत्रानुज्ञा अत्रोत्तरमागतो द्रव्यानुज्ञा । जस्स णमित्यादि । णं वाक्यालङ्कारे । यस्य कस्यचिदनुज्ञापदं । अनुज्ञापदविषया व्युत्पत्तिरित्यच्चा ? शिक्षितं जितं यावद्वानोपगतं भवति । स जन्तुस्तत्रानुज्ञापदेऽनुप्रेक्षावर्जशेषवाचनादिभिर्वर्त्तमानोप्यनुज्ञापदार्थोंपयोगे वर्त्तमान आगमत आगममाश्रित्य द्रव्यानुज्ञेति समुदायार्थः ॥ तत्रादित आरभ्य पवनक्रियया यदन्तं नीतं । तच्छिष्यतमुच्यते । इहानुज्ञापदस्य प्रकृततत्वेपि तदितरशास्त्रविषये शिक्षितादिपदानामर्थों व्याख्येयः । तदनुसारेणानुज्ञापदेपि तथा योज्यः 'ठियं 'ति पठनक्रियया यदन्तं नीतं तदेवाविस्मरणतश्चेतसि स्थितत्वात् स्थितमप्रच्युतमित्यर्थः । परावर्त्तनं कुर्वतः परेण वा क्वचित्पृष्टस्य यच्छीघ्रमागच्छति इत्यर्थः । नाम अभिधानं तेन समं नामसमं इदमुक्तं भवति । यथा स्वनाम कस्यचिच्छिक्षितं स्थितं जितं मितं परिजितं भवति तथैतदपीत्यर्थः । घोषा उदात्तादयस्तै वचनाचार्याभिहितघोषैः समं घोषसमं । यथास्थितं । गुरुणा अभिहिता घोषास्तथा शिष्योपि यत्र शिक्षते तद्घोषसममिति भावः । एकद्वयादिभिरक्षरैर्हीनं हीनाक्षरं न तथा अहीनाक्षरं । एकादिभिरक्षरैरधिकमत्यक्षरं । न तथा अनत्यक्षरं । अच्छा अक्ख रति । विपर्यस्त रत्नमाला गतरत्नानीव व्याविद्वानि विपर्यस्तान्यक्षराणि यत्र तद्वयाविद्वाक्षरं । अन्वा मिति क्वचित्पाठः । तत्रापि व्याचिद्वाक्षरयोगाद्वयाविद्वं । न तथाऽव्याविद्धं । उपलशकलाद्याकुल भूतले लांगलमिव स्खलतियत्र [ तत्स्खलितं न तथाऽस्खलितं अनेक शास्त्र सम्बन्धीनि सूत्रा - ण्येकत्र मौलयित्वा यत्र पठति तन्मिलितं । असदृशधान्यमेलकवत् । अथवा परावर्त्तमानस्य यत्र पदादिविच्छेदो न प्रतीयते । तन्मिलितं । न तथाऽमिलितं । एकस्मिन्नेवशास्त्रेऽन्यान्यऽस्थान निबद्धानि अनेकार्थानि सूत्राण्येकत्रस्थाने समानीय पठतो व्यत्याम्रेडितं । अथवा आचारादिसूत्रमध्ये स्वति चर्चितानि तत्सदृशानि सूत्राणि कृत्वा प्रक्षिपतो व्यत्याग्रेडितं । अस्थानविरतिकं वा व्यत्याम्म्रेडितं । तथाऽव्यत्याम्रेडितं सूत्रतो बिन्दुमात्रादिभिरन्यूनमर्थतस्त्वध्याहाराकाङ्क्षादिरहितं प्रतिपूर्णं । उदात्तादिघोषैर विकलं प्रतिपूर्णघोषं । अत्राह । घोषसममित्युक्तमेव । तत्क इह विशेष इत्युच्यते । घोषसममिति शिक्षाकालमधिकृत्योक्तं । प्रतिपूर्णघोषं तु परावर्तनादिकालमधिकृत्येति विशेषः । कण्ठ चौष्ठश्च कण्ठौष्ठमिति प्राण्यङ्गत्वात्समाहारस्तेन विप्रयुक्तं कण्ठौष्ठविप्रमुक्तं बालमूकभाषितत्र यद्व्यक्तं न भवतीत्यर्थः । गुरुप्रदत्तया वाचनया १२ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112