Book Title: Agam 44 Chulika 01 Nandi Sutra
Author(s): Chandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 98
________________ तुगंपदवास्या आगमरूपं शास्त्रमागमशास्त्रं श्रुतज्ञानमित्यर्थः तस्य ग्रहणं गुरुसकाशादादानं तदेव श्रुतलाभब्रुवते । यद्बुद्धिगुणैरष्टभिः शास्त्रे दृष्टं नान्यदिति । वक्ष्यमाणशुश्रूषादिगुणाष्टकक्रमेणैव श्रुतज्ञानं ग्राह्यम् । नान्यथेति तात्पर्यमिति गाथार्थः ।। सुस्सूसइ गाहा ॥ अथ अथवा यद्यदाज्ञापयति कार्यजातं गुरुस्तत्तत्सम्यग् अनुग्रहं मन्यमानः श्रोतुमिच्छति । शुश्रषते । पूर्वनिरुपितश्च कार्यकरणकाले पुनः पृच्छति प्रतिपृच्छति । इत्थं वाराधितस्य गुरोरंतिकेसूत्रतदर्थे वा सम्यक् शणोति श्रुतंवावग्रहेणगृह्णाति इत्यादि पूर्ववत् । यद्वा प्रतिपृष्टेन गुरुणा पुनरादिष्ट चसंस्तद्वचः सम्यक् शृणोति । श्रुतंवावग्रहेण समागृह्णातीत्यादितथैवं । यावत्करोति च गुरुभणितं सम्यगित्येवं गुर्वाराधनविषयत्वेनाष्टावपि गुणा व्याख्यायन्ते । श्रुतावाप्तौ मूलोपायत्वाद्गुराधनाया इति गाथार्थः । माशार्थः। श्री धनेश्वरमरीणां पादपद्मोपजीविना । नन्दिवृत्तौ कृताव्याख्या श्रीमच्छीचन्द्रसूरिणा .. समाप्ताचेयं नन्धध्ययनटीकायां श्रीशीलभद्रप्रभु श्रीधनेश्वरसूरिशिष्य श्री श्रीचन्द्रसूरिविरचिता दुर्गपदव्याख्या ॥ से तं नन्दी सम्मत्तेति वचनादाचार्यपदस्थापनायामनुयोगानुज्ञाविषयेयं नन्दिरेतावत्प्रामाणा समर्थितेति । इत ऊद्ध सेकिं तमणुन्ना इत्यादि ग्रन्थपद्धतिर्या किलापरा दृश्यते । सूत्रपुस्तके सागणामुज्ञा विषया लघुनन्दिरिति सम्भाव्यते । अतो अस्या अपि गमनिका काचिदुच्यते । तत्रानुज्ञानमनुज्ञाः समर्पितं सम्प्रति तव गणशिष्यवस्त्रपात्रादिकं सर्व मयेति । तवायत्तमिदं सर्व सम्प्रतीत्येवं रूपो गुरूवचनविशेषोऽनुज्ञोच्यते । अनुज्ञायते वानयेति अनुज्ञा गुरूक्तिरेव ॥ सेशब्दोऽथ शब्दार्थे । अथ शब्दश्च वाक्योपन्यासार्थः । अथ किंरूपा सानुज्ञाऽत्र प्रतिवचनं । षड्विधा प्ररूपितास्तद्यथा । नामाणुन्नेत्यादि । नामाभिधानं । तद्रूपाऽनुज्ञा नामानुज्ञा । अनुज्ञेति । नामेवनामानुज्ञेत्यर्थः । अथवा नाम्ना नाममात्रेण अनुज्ञानमनुज्ञा जीवादीत्यर्थः । नामानुज्ञास्वरूपनिरूपणायाह । से किं तमित्यादि । अत्र द्विकलक्षणेनाङ्केनाद्वितीयमपि नामाणुन्नत्तिपदं सूचितं द्रष्टव्यं । एवमन्यत्रापियथा सम्भवमभ्यूझं । णमिति वाक्यालङ्कारे यस्य जीवाजीवादिवस्तुनोऽनुज्ञेति नाम क्रियते । तदेवजीवादिक वस्तु नामानुज्ञा नाम्ना नाममात्रेणानुज्ञानमनुज्ञेति व्युत्पत्त्या । वा शब्दः पक्षान्तर सूचकः । तत्र जीवस्यमोसुतादेः कश्चित् स्वाभिप्रायवशादणुन्नत्ति नाम करोति एवं शेषेष्वपि सेयंनामानुज्ञा ॥ इदानी स्थापनानुज्ञोच्यते । से किं तमित्यादि । अथ केयं स्थापनानुज्ञा । स्थापनानुज्ञा जण्णमित्यादि । तत्र स्थाप्यतेऽमुकोयमिति अभिप्रायेण क्रियते । नियंत इति स्थापना काष्ठकर्मादिग Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112