Book Title: Agam 44 Chulika 01 Nandi Sutra
Author(s): Chandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
नंदीसूत्र-टीकायाः
तानुज्ञानामंकवस्त्वाकाररूपा । ततः स्थापना च सा अनुज्ञा च स्थापनानुज्ञा यत्साकारमनाकारं वा तदभिप्रायेण क्रियते सा स्थापनेत्यर्थः ॥
जण्णंति णं पूर्ववत् । यत्काष्ठकर्मणि चित्रकर्मणि वा । यावद्वराटके वा एको वानेको वा सद्भावस्थापनया वा। अणुन्नति। अनुज्ञा तद्वतोरभेदोपचारात् तद्वानिह गृह्यते । ठवणा ठविज्जइति । काष्ठकर्मादिषु स्थापनारूपः स्थाप्यते कियते । आवृत्त्या बहुवचनांतात्वस्थापना रूपाः । स्थाप्यते क्रियते आवृत्त्या बहुवचनांता त्वस्थापनारूपाः स्थाप्यन्ते क्रियन्ते ॥
___ सेयं स्थापनानुज्ञेत्यादिपदेन सम्बन्ध इति समुदायार्थः । अवयवार्थस्तु । क्रियत इति कर्म काष्ठे कर्म २ काष्ठं निकुट्टितरूपकर्मेत्यर्थः ।।
पोत्थकम्मेवत्ति । अत्रपोत्थं पोत्तं । वस्त्रमित्यर्थस्तत्र कर्म तत्पल्लवनिष्पन्नं । धीउल्लिकारू पमित्यर्थः । अथवा पोत्थं पुस्तकं तच्चेह संपुटरूपं ग्राह्यं । तत्र कर्म । तन्मध्येवर्तिका लिखितंरूपकमित्यर्थः । अथवा पोत्थं ताडीपत्रादि । तत्र कर्मतच्छेदनिष्पन्नरूपकं । लेप्यकर्म । लेप्यरूपकं । वेष्टिमं । पुष्पवेष्टनक्रमेण निष्पन्नरूपं । यद्वा एकं द्वयादीनि वा वस्त्राणि वेष्टयन् । कश्चिद्रूपकमुत्थाययति तद्वेष्टिमं पूरिमं भरिमं । भरिमं पित्तलादिमयप्रतिमावत् । सङ्घातिमं । बहु वस्त्रादिखण्डसङ्घातनिष्यन्नं । कञ्चकवत् । अक्षश्चन्दनकः वराटकः कपर्दकः । वाशब्दा पक्षान्तरसूचकाः । तत्रकाष्ठकर्मादिष्वाकारवती सद्भावस्थापना । अनुज्ञातदाकारस्य तत्र सद्भावात् । अक्षादिष्वनाकारवती । असद्भावस्थापना । आकारस्य असद्भावात् । सेयं स्थापनानुज्ञा । नामस्थापनयोः कः प्रतिविशेषो? न कश्चित्तथाहि यथा जीवादावर्थशून्यद्रव्यमात्रेऽनुज्ञेतिनाम क्रियते । तथैव तच्छून्ये काष्ठकर्मादौ द्रव्यमाने स्थापनापि क्रियते । अतोऽनुज्ञाशब्दार्थ शून्ये द्रव्यमाने उभयोः क्रियमाणत्वात्नानयोः कश्चिद्विशेषः। अत्रोत्तरमाह ॥ नामं आवकहियमित्यादि ॥
- नाम यावत्कथिकं । स्वाश्रयद्रव्यस्यास्तित्वकथायां यावदनुवर्तते । न पुनरन्तराप्युपरमते स्थापना पुनरित्वरा । स्वल्पकालभाविनी वा स्याद्यावत्कथिका वा । स्वाश्रयद्रव्येऽवतिष्ठमानेपि काचिदन्तरापि निवर्त्तते काचित्तु तत्सत्तां यावदवतिष्ठत इति भावः । सम्प्रति द्रव्यानुज्ञाव्याचि ख्यासया प्रश्नयति । से किं तमिति । अथ केयं द्रव्यानुज्ञा । हंत द्रव्यानुज्ञा द्विविधा प्रज्ञप्ता । तद्यथा । नवरं द्रवति गच्छति तांस्तान् पर्यायानिति द्रव्यं । विवक्षितयोरतीतभविष्यद्भावयोः कारणं । अनुभूतविवक्षितभावं वा वस्त्वित्यर्थः । द्रव्यं च तदनुज्ञा च द्रव्यानुज्ञा । अनुभूतानुज्ञा शब्दार्थपरिणामं । अनुभविष्यदनुज्ञा शब्दार्थपरिणामं वा देहादीत्यर्थः। द्रव्यलक्षणं च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112