Book Title: Agam 44 Chulika 01 Nandi Sutra
Author(s): Chandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 101
________________ नंदीसूत्र - टीकायाः उपगतं प्राप्तं गुरुवचनोपगतं । नतु कर्णाघाटकेन शिक्षितं । नवा पुस्तकात् स्वयंमेवाधीतमितिभावस्तदेव यस्य जन्तोरनुज्ञेति पदं शिक्षितादिगुणोपेतं भवति स जन्तुस्तत्र पदे वाचनया शिष्याध्ययनलक्षणया प्रच्छनयाऽवगतार्थादेः गुरुं प्रति प्रश्न लक्षणया परावर्त्तनया पुनः २ सूत्राभ्यासलक्षणया धर्मकथया अहिंसादिधर्भप्ररूपणस्वरूपया वर्त्तमानोयनुपयुक्तत्वादिति साध्याहारमागमतो द्रव्यानुज्ञेत्यनेन सम्बन्धः । न तु यथा वाचनादिभिस्तत्र वर्त्तमानोपि द्रव्यानुज्ञा भवति । तथानुप्रेक्षयापि तत्र वर्तमानः सा भवति नेत्याह । नो अणुपेहाएत्ति । अनुप्रेक्षयाऽर्थानुचिन्तनरूपया तत्र वर्त्तमानो न द्रव्यानुज्ञेत्यर्थः । अनुप्रेक्षाया उपयोगमन्तरेणाभावादुपयुक्तस्य च द्रव्यानुज्ञत्वायोगादिति भावः । अत्रापरः कन्हत्ति ननु कस्माद्वाचनादिभिस्तत्र वर्त्तमानो न द्रव्यानुज्ञा । कस्माच्चानुप्रेक्षया तत्र वर्त्तमानोपि न तथेति प्रच्छका भिप्रायः । एवं पृष्टे सत्याह । अणुवओगोदव्वमितिकट्टुत्ति । अनुपयोगो द्रव्यमिति कृत्वा उपयोजनमुपयोगो जीवस्य बोधरूपो व्यापारः । स चेह विवक्षितार्थे चित्तस्य विनिवेशस्वरूपो गृह्यते । न विद्यते उपयोगो यत्र सोनुपयोगः पदार्थः । स विवक्षितोपयोगस्य कारणमात्रत्वाद्रव्यमेव भवतीति कृत्वास्मात्कारणादनन्तरोक्तमुपपद्यत इति शेषः । एतदुक्तं भवत्युपयोगापूर्वका अनुपयोगपूर्वका गृह्यन्ते । इह जिनमते सर्व्वमपि सूत्रमर्थश्च श्रोतृजनपेक्ष्य नयैर्विचार्यते । नत्थन एि विहूणं सुतं अत्थोय जिणमए किंचि । आसज्जउ सोयारं नए नयविसारओ ब्रूया । इति वचनादत इयमपि द्रव्यानुज्ञानयैश्चिन्त्यते ते च मूलभेदमाश्रित्य नैगमादयः सप्त । तदुक्तं । ग संगहववहारउज्जुसुए वेव होंति बौधन्वे । सदे यसमभिरूढे । एवंभूतेय मूलनया । तत्र नैगमस्ताव - त्कियत्यो द्रव्यानुज्ञा इच्छतीत्याह || नेगमस्सेत्यादि । सामान्यविशेषादिप्रकारेण नैकोपि तु बहवो गमा वस्तुपरिच्छेदो यस्यासौ निरुक्तविधिना ककारस्य लोपान्नैगमः सामान्यविशेषादिप्रकारैर्बहुरूपवस्त्वभ्युपगमपर इत्यर्थः तस्य नैगमस्यैको देवदत्तादिरनुज्ञा शब्दार्थज्ञोऽनुपयुक्त आगमतएका द्रव्यानुज्ञा । द्वौ देवदत्तयज्ञदत्तावनुपयुक्ता वागमतो द्वे द्रव्यानुज्ञे त्रयो देवदत्तयज्ञदत्तसोमदत्ता अनुपयुक्ता आगमतः तिस्रो द्रव्यानुज्ञाः । किं बहुना एवं यावन्तो देवदत्तादयोऽनुपयुवास्तावत्य एव ताः अतीतादिकालत्रयवर्त्तिन्यो नैगमतो द्रव्यानुज्ञा इति ॥ न पुनः सङ्ग्रहवत्सामान्यवादित्वादेकैवेतिभावः । एवमेव ववहारस्सवित्ति व्यवहरण व्यव - हारो लौकिकप्रवृत्तिरूपस्तत्प्रधानो नयोपि व्यवहारस्तस्याप्येवमेव नैगमवदेको देवदत्तादिरनुपयुक्त आगमत एका द्रव्यानुज्ञा इत्यादि सर्वं वाच्यं । इदमुक्तं भवति । व्यवहारनयो लोकव्यवहारोपकारिण एव पदार्थानभ्युपगच्छति । न शेषान् । लोकव्यवहारे च जलाहरणत्रण पिण्डीप्रदानादिके घटनिम्बादिविशेषा एवोपकुर्वाणा दृश्यन्ते । नपुनस्तदतिरिक्तं तत्सामान्यमिति विशेषानेववस्तुसत्वेन प्रतिपाद्यते । असौ न सामान्यव्यवहारानुपकारित्वाद्विशेषव्यतिरेकेणानुपलभ्यमा Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 99 100 101 102 103 104 105 106 107 108 109 110 111 112