Book Title: Agam 44 Chulika 01 Nandi Sutra
Author(s): Chandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
Ammmmmmmmmmmmmmmmmmmm
दुर्गपदव्याख्या तत्र पिंडसेण १ सज्जि २ रिया ३ भासज्जायाय ४ वच्छ .५ पाएसा ६. उग्गहपडिमासन्नेक सत्तया १४ भावण १५ विमुत्ती १६ ॥
- शस्त्रपरिज्ञादिषु पञ्चविंशत्यध्ययनेषु क्रमेणैते उद्देशनकाला यथा एवं सत्थपरिन्नाए इत्यादिना कथयति । सत्तय छच्चेत्यादि गाथा । पूर्वानाधश्रद्धतस्कन्धेकाल ५१ एकारेत्यायुत्तरार्द्धन द्वितीय श्रतस्कन्धगोचरकालः ३४ अभिहिताः सर्वे ८५ ॥
जइ दो सुयखधा इत्यादि ॥ एयं विरुज्झइत्ति ॥ श्रुतस्कन्धद्वयादिके उच्यमाने नव बंभचेर मइउत्ति एयं विरुज्झइ । यतोऽनेन एक एव श्रुतस्कन्धो नवाध्ययनात्मक आचारस्य प्राप्नोति ॥ सूरिराह । एत्थवित्ति । आचारनियुक्तावेवोक्तं । तदेवाह ॥ हवइय सपंचचूलोत्ति । द्वितीयश्रुतस्कन्धे पञ्चचूडाः । यद्वा आचारस्य यदग्रं चूडादिकं तत्सहितस्य श्रुतस्कन्धद्वयादिकं परिमाणमुच्यते । नवाध्ययनमयस्य चाष्टादशपदसहस्राण्येव परिमाणं । अणंता पज्जवत्ति । पर्यवाः पर्याया धर्मा इत्यर्थः । तेऽनन्ता एकैकस्याप्यकाराधक्षरस्य । तदभिधेयस्यजीवादि वस्तुनः । प्रत्येकमनन्तपर्यायत्वात्स्वपरभेदभिन्नत्वेन । ३ साः परीत्ताः । नानन्ताः एवं रूपत्वादेव तेषां सासय कडेत्यादौ । निकाइयत्ति । निकाचिताः प्रतिष्ठिता इत्यर्थः । भावाः पदार्था । अन्येप्यजीवादयः आघविद्यन्ति । आख्ययन्ते । सामान्यविशेषाभ्यां कश्यन्ते । जिनोक्ता भावाः पन्नविजन्ति । प्रज्ञाप्यन्ते नामादिभेदतः प्ररूप्यन्ते नामादिस्वरूपकथनेन यथा पर्यायानभिधेयं नामेत्यादि दर्यन्ते उपमामात्रतः । यथा गौस्तथा गवय इत्यादि निदर्श्यन्ते । हेतुदृष्टान्तोपन्यासेन उपदयन्ते । उपनयनिगमनाभ्यां सकलनयाभिप्रायतो वा । इत्थं सर्वत्र व्याख्या वाच्या ।
सूयगडेत्याति । रूढ्योच्यते इति । तथा च पठ्यते । अज्ञो जंतुरनीशःस्यादात्मनः सुखदुःखयोः । ईश्वरप्रेरितो गच्छेत् श्वभ्रं वा स्वर्गमेववा इति । क्रियापूर्ववदिति । व्यूहकृत्वेत्यादिका अनवस्थितस्येति क्षणिकत्वेनावस्थितत्वं लघुत्वात् प्रक्रमस्येति । प्रक्रमो लघुरल्पाक्षरो यथा भवति तथा कार्य मत्वर्थीयेन चाक्षराधिक्याद् गुरुः स्यादतो मत्वर्थीयात्प्रागेवादित एवं बहुब्रीहिणा अज्ञाना इति वक्तुमुचितं । तदसत् । बहुव्रीहिणा हि अज्ञानिकशब्दवाच्योऽर्थो न प्रतीयते किन्तु न ज्ञानं यस्येति ज्ञानाभाव एव प्रतीयते । न चेदमिष्टं । किन्तु ना कुत्सार्थवृत्तिनाऽज्ञानमित्यविशिष्टं ज्ञानान्तरमेव प्रतीयते । कुत्सितत्वं च तस्य मिथ्यादर्शनसमन्वितत्वात् । अतो मत्वर्थीयोऽत्र युक्तो यथा गौरखरवदरण्यमित्यत्र । श्वापदविशेषो गौरस्वरः तदुपेतमस्ण्यमत्र जातिशब्दत्वाद्बहुव्रीहिणोक्तार्थत्वेपि मत्वर्थीयः प्रवृत्तः । एवं प्रकृतेपि । असश्चित्य कृतो.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112