Book Title: Agam 44 Chulika 01 Nandi Sutra
Author(s): Chandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 91
________________ नंदीमत्र-येकायाः अङ्गेषु प्रविष्टमन्तर्गतमङ्गप्रविष्टं। श्रुतमाचारादि । बाह्याभ्यन्तरग्रन्थरहितानामिति । तत्र बाह्यो धनधान्यादिकः प्रतीतः अभ्यन्तरश्च मिथ्यात्वं नब नोकषायाः। क्रोधादिकषायचतुष्टयं चेति चतुर्दशविधः ॥ इह च यत्रेत्यादि । भाचारगोचरविनयेत्यादौ सूत्रे ॥ निस्संकिय गाहा ॥ निःशङ्कितो निर्गतशङ्को जीवादिषु । निःकाक्षितो निर्गतकाङ्क्षोऽन्यतीर्थिकमतेषु निर्विचिकित्सो निःसन्दिग्धोऽनुष्ठानफलं प्रति । अमूढदृष्टिः कुतीर्थिकविद्या दिदर्शनैः च समुच्चये एवं गुणगुणिनोः कथञ्चिदभेदावेदनद्वारेण दर्शनाचारमभिदधता तद्वदभिधानमुखेनासावुक्त्येऽतस्तं गुणिनो भेदेनाप्याह ॥ उपबृंहणमुपबहा गुणवत्स्तुतिरूपा स्थिरीकरणं धर्मे चलाचलस्य(स्थिर)त्वापादनलक्षणं । तथा वात्सल्यं वत्सलभावः साधर्मिकाणामाहारादिभिरुपष्टम्भकरणमित्यर्थः तथा प्रकर्षेण भावना जिनशासनमाहात्म्याविष्करणरूपा । अष्टावमी दर्शनाचारा इत्यर्थः । प्रभावकानष्टावुद्दिष्टानाह || अइसेस गाहा || व्याख्या। अतिशेषा अवधिज्ञानादयस्ते तैर्वा ऋद्धिर्यस्यासावतिशेषर्द्धिः । भिन्ने वा पदे तद्वत्तौ दृश्यौ आचार्यः प्रावचनिको । वादीवादलब्धिमान् । धर्मकथी धर्मकथालब्धियुक्तः । क्षपको विकृष्टतपकर्ता । नैमित्तिकः सुनिश्चितातीतादि निमित्तवेदी। विधेत्युपलक्षणत्वाद्विद्यावान् राजगणसंगताः । पृथिवीपतिमहाजनादिबहुमताः । स्थानद्वयमिदं । एकं वा अतिशेषहोकेत्वविवक्षायां । तीर्थ प्रवचनं स्वसमृद्धया प्रभावयन्ति मध्यस्थप्राणिनां बहुमानगोचरीकुर्वन्त्रीति गाथार्थः ॥ प्रणिधानं चित्तैकाग्रता। तेन मनोवाक्कायेषु यो युक्तस्तन्निग्रहपरः ॥ न इह लोकाद्यर्थमाजीवति तपसा यः सोऽनाजीवी ॥ वेदाच्छंदोविशेषा; । . एकार्थप्रतिबद्धवचनसंकलिकेत्यर्थः इत्यन्ये । द्रव्याद्यभ्युपगमाः प्रतिपत्तयो मतान्तराणीत्यर्थः सूत्रादर्थो गरीयान् । ___ अतएव सूत्रधरादर्थधरः प्रधान इत्युच्यते ॥ स्थापनामित्यादि । रचनापेक्षया नु द्वादशमहं प्रथमं पूर्वगतस्य । पूर्व प्रवचनात् पूर्वक्रियमाणत्वात्पूर्वाण्युच्यते ॥ स्थापनामधिकृत्य च आचारः। प्रथमभङ्गं ॥ सत्थपरिन्नेत्यादि गाथायामत्र चतुर्थपादो महापरिपन्नोवहाणसुयमिति वक्ष्यमाणव्याख्यानेनायमेवात्र पाठः अन्यत्र च उवहाणसुयं महपरिन्नेति पठ्यते । तच्चेदन्ये पप-ते उद्देशनकालसङ्ख्यायां विघटनात् । महापरिज्ञायास्तत्र प्रथममुपादानात् । पश्चादुपधानश्रुतस्येति । प्रथमश्रुतस्कन्धो नवाध्ययननिष्पन्नो भवति । पिण्डेसणेत्यादिना द्वितीयश्रुतस्कन्धाध्ययनषोडशकं । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112