Book Title: Agam 44 Chulika 01 Nandi Sutra
Author(s): Chandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 89
________________ नन्दीसूत्र-टीका nimin यदिह दिवसनिशाप्रथमचरमपौरुषीलक्षण एव काले कालग्रहणपूर्वकं पठ्यते । नान्यत्र तत्कालिकं । उत्तराध्ययनादि । यत्तु कालवेलामात्रवजे शेषकालानियमेन पठ्यते तदुत्कालिकमावश्यकादि । अन्य च तन्दुलविचारणादिप्रकीर्णकेषु स्वाध्यायप्रस्थापनं योगोत्क्षेपः कायोत्सर्गश्च न क्रियते ॥ ___ महाकर्मेन्धनप्रभवश्चासावविध्यातश्चासौ दुःखानलश्च तस्य ज्वालाकलापस्तेन परीतं व्याप्तं संसारवासगृहं पश्यन् । यत्क्रियानुष्ठानविमुख एवास्ते । सत्वः सप्रमाद इति योगः जाताविति जन्मनि । दृष्ट्वाप्यालोकमिति। मौयौपञ्चाश्चैर्वैश्वदेवीति नाम्निति । वैश्वदेवीदंच्छन्दः । आलो. क्यते ज्ञायतेऽनेनेत्यालोकः । मत्यादिज्ञानचतुष्टयं च्छामस्थिकं तद् दृष्ट्वा लब्ध्वापि विश्रम्भो विश्वासो न विधेयो । यदुत लब्धं मया यल्लब्धव्यमिति । ततो धर्म प्रति मन्दादरो भवेयमिति । यतो हि नीरं नीतापि भ्राम्यते इतस्ततः प्रेयते व्याधुट्यते वा नौर्वातेन तथाहि ॥ ... ब्रह्मदत्तोत्र दृष्टान्तो नरेशश्चक्री चित्रसभ्भूतजन्मनि सम्भूतपर्याये वर्तमानः लब्ध्वा वैराग्यं संयमानुष्ठानहेतुः प्रमादाद्विषयव्यामूढचित्तेन निदान करणात् भ्रष्टयोगोऽजनि ततो व्यावृत्तोव्याधुटितो धर्माच्चित्रमनेकशो भण्यमानोपि चक्रिभवेवानेकशः साधुना भण्यमानोपि धर्माभ्रष्टयोगोऽजनि । इति प्रमादफलमिदं ॥ अङ्गुष्टावित्यादि । तदुक्तं । अद्वेगसद्विभागो पइदियह अङ्गुलस्सव....ति । उत्तर अयणमि पुणो । तेच्चिय हायन्ति पइदियह ॥ तत्राविशेषेपीति ज्ञानस्य सामान्यशिक्षणेपि अयं विशेषः । ज्योतिष निमित्तं तयोनि सूरेः प्रव्राजनादिकायें उपयुज्यते । इति निधिकरणादि च ज्योतिष्कविषये ज्ञातव्यं । तदन्यथा विवाहादिविषयव्यापारणे दोष आरम्भादिसमुत्थः । संलेखना श्रुतमिति । संलिख्यतेनया देहात्मादीति संलेखना शरीराधपकर्षणरूपा संलेखना । सा च किल त्रिविधा । जघन्या पाण्मासिकी। मध्यमा संवत्सरप्रमाणा । उत्कृष्टा तु द्वादशवर्षरूपा । सा वं । चत्तारि गाहा । नाइविगिद्धोय गाहा ॥ वासं गाहा ॥ प्रथमं चत्वारि वर्षाणि । यावत् विचित्रं चतुर्थषष्टाष्टमद्वादशादिकं तपः करोति। पारणके च विकृतीगृह्णाति नवेत्य नियमः । अपराणि तु चत्वारि वर्षाणि तपस्तथैव विचित्रमेव करोति पारणके तु सर्वथाविकृतिवर्जमस्निग्धं भुङ्क्ते । अन्यत्तु संवत्सरद्विकं एकान्तरितमाचाम्लं विदधाति चतुर्थ कृत्वा आचाम्लेन पारयति पुनश्चतुर्थं कृत्वा आचाम्लेनैव पारयतीत्यर्थः । एवं पुनः पुनर्यावद्वर्षद्वयं । एकादशस्य तु वर्षस्यायने षण्मासान्नातिविकृष्टं नातिगाढं तपः करोति । चतुर्थं षष्ठं वा विधत्ते- . नाष्टमादिकमित्यर्थः । पारणके तु परिमितं किश्चिदूनोदरतासम्पन्नमाचाम्लं करोति । अपरांस्तु Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112