Book Title: Agam 44 Chulika 01 Nandi Sutra
Author(s): Chandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 90
________________ दुर्गपदव्याख्या षण्मासान् विकृष्टमष्टमदशमद्वादशादिकं तपः करोति । पारणके त्वाचाम्लमूनोदरतया न करोति किन्तु ध्रुवेणेत्यर्थः । द्वादशं तु वर्ष कोटीसहितं निरन्तरमाचाम्लं करोतीत्यर्थः । चतुर्थ कृत्वा आचाग्लेन पारयति । पुनश्चतुर्थ विधायाचाम्लेनैवं पारयतीत्यादीन्यपि मतान्तराणि द्वादशवर्षविषयाणि दृश्यन्ते । इह च भोननं कुर्वन् प्रतिदिवसमूनोदरतां तावत्करोति यावदेक कवलमाहारयति । तमप्येकद्विव्यादिसिक्थोनन्त वेदाहरयति । यावदेकमेवसिक्थं भुङ्क्ते । अपरं चेह द्वादशवर्षस्य पर्यन्तवर्तिनश्चतुरो मासान् यावदेकान्तरिकेषु पारणदिवसेषु सुचिरं तैल. गंडूषमसौमुखे धार्यते ततः खेलमल्लके भस्ममध्ये प्रक्षिप्य मुखमुग्णोदकेन शोषयति । यदि पुनस्तैलगंडूषविधि न कार्यते। तदा वायुना मुखमीलनसम्भवे पर्यन्तसमये नमस्कारमुच्चारयितुं न शक्नोति । तदेवमुत्कृष्टसंलेखनानुसारेण जघन्यमध्यमेऽपि कार्यों तदन्ते च भक्तप्रत्याख्यानादिमरणानामन्यतरत्प्रतिपद्यते ॥ अत एवाह । किरिकन्दरमित्यादि । गिलाण किरियाइयंति । उत्थानादि क्रियाकरणसमर्थ ज्ञात्वा । दायणयाएत्ति । सर्वद्रव्यदर्शनेन । नित्तन्हस्सत्ति । भक्ते विगततृष्णस्य ॥ आवलिकाप्रविष्टेभ्य इतरविमानानि पुष्पावकीर्णकानि ॥ उववुत्ते समाणेत्ति । उपयुक्तः सन् श्रमणः परिवर्त्तते । गुणयति उवयइत्ति । आकाशादवपतत्पवरति । अन्तद्धिएत्ति । अन्तर्द्धित आकाशस्थः । ___ सिंगनाइयकज्जेसुत्ति । शृङ्गज्ञातेन तुल्यानि शृङ्गज्ञातीयानि । तानिचतानि कार्याणि वेति विग्रहः। यथा गविस्थितं शृङ्गं सर्वजनप्रकटं भवत्येव यत्सर्वजनविदितं महदद्भुतं किञ्चिच्चैत्यगुरुसङ्घादिविषयमनर्थरूपं प्रत्यनीकेन क्रियमाणं भवति । तच्छङ्गज्ञातीयमुच्यत इत्येके । शृङ्गनादितकार्यमित्यपरे । तत्र तादृशे कार्ये उत्पन्ने शृङ्गनादः शृङ्गापूरणपूर्वक सङ्घमिलनलक्षणः । ससञ्जानो यत्र तच्चतत्कार्यत्वेति व्याचक्षते । शृङ्गज्ञातीयं सङ्घकार्यमुच्यते इति तात्पर्य ॥ आसुरुप्तः रुष्टः अत एव अप्रसन्नलेश्यः अप्रशस्तचित्ताध्यवसायः। सललियन्ति । सलीलं यथा भवति । एवमागत्य स्वस्थाने निवसति ॥ जाणिकप्पविमाणाणित्ति देव्युत्पत्तिविषयाणीत्यर्थः । अन्ने इत्यादि । असभाईणं सधराणंति जीवतामित्यर्थः । पवाहेणेत्ति । निर्वृतानां पुनरेकैकतीर्थे बहूनि द्रष्टव्यानि । तच्छिष्यभाव इति । शासनप्रणेतृतीर्थकरशिष्यभावः प्रत्येकबुद्धानामप्यदुष्टः ॥ अभियोगत इति । नत्ववश्यंभावेनेत्यर्थः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112