Book Title: Agam 44 Chulika 01 Nandi Sutra
Author(s): Chandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 88
________________ दुर्गपव्याख्या यकत्वादेकवस्तुज्ञानस्य । यस्तु सर्वे सर्व पर्यायोपेतं वस्तु जानाति स एकमपि सर्व सर्व पर्यायोपेतं वस्त्वजानानो नाकाररूपमक्षरं सर्वथा सर्वप्रकारैः सर्व पर्यायोपेतं वस्त्वजानानोकाररूपमक्षरं सर्वथा सर्वप्रकारैः सर्वपर्यायोपेतं जानाति तस्मात् शेषसमस्तवस्तुपर्यायैः परिज्ञातैरेव एकमक्षरं ज्ञायते नान्यथेति भावः । अक्षरविचारस्येह प्रक्रान्तत्वाच्चैकैकमक्षरं सर्वद्रव्यपर्याय राशिमानमुयते । अन्यथान्येषामपि परमाणुस्थाणुकघटादिद्रव्याणामिदमेव पर्यायमानं द्रष्टव्यमेतद्वक्तुमाह || فاف ततश्चास्मात्सूत्रादित्यादि । असौ अनन्तभागो नित्योद्घाटोऽकारादिश्रुताक्षरस्य तज्जन्यज्ञानस्य वा द्रष्टव्यमशेषज्ञानानामित्यर्थः ॥ भिन्नेऽर्थे जाते यत्सदृशाक्षरलोपकं तद्गमिकं, असदृशं त्वगमिकं । अन्यच्च । गाथाश्लोकवेष्टकाद्यसदृशपाठात्मकत्वादगमिकं । अत्राहेत्यादि । खङ्गानङ्गप्रविष्टश्रुतयोरिदं नानात्वं किमित्याह ॥ गणधरा गौतमस्वाम्यादयस्तत्कृतं श्रुतं द्वादशाङ्गरूपमङ्ग प्रविष्टमुच्यते । स्थविरा भद्रबाहुस्वाम्यादयस्तैर्यत्कृतं यद्द्दब्धं श्रुतमावश्यकनिर्युक्यादिकं तदङ्गबाह्यमनङ्गप्रविष्टमुच्यते । द्वितीयं भेदकारणमाह ॥ नियमित्यादि । सर्वतीर्थकरतीर्थेषु नियतं निश्चयभावियश्रुतं तदङ्गप्रविष्टमुच्यते । द्वादशाङ्गमित्यर्थः ॥ यत्पुनरनियतम निश्चयभावि प्रकीर्णकादिकं श्रुतं तदङ्गवा भणितं । आह ननु - प्रथम पूर्वाण्येवोपनिबध्नाति गणधर इत्यागमे श्रूयते पूर्वकरणादेव चैतानि पूर्वाण्यभिधीयन्ते । निःशेषमपि वाङ्मयमवतरति । अतश्चतुर्दशपूर्वात्मकं द्वादशमेवाङ्गमस्तु । किं शेषाङ्गविरचनेनः भङ्गबाह्यश्रुतरचनेन वेत्यत्रोच्यते । यद्यपि दृष्टिवादे सर्वस्यापि वाङ्मयस्यावतारोस्ति तथापि दुर्मेधसां तदवधारणाद्ययोग्यानां मन्दमतीनां तथा श्रावकादीनां स्त्रीणां वानुग्रहार्थं विशेषश्रतस्य पूर्वेभ्योविभिन्नस्याङ्गबाह्यशेषाङ्गरूपस्य विरचना कृतेति । स्त्रीणां दृष्टिवादे अधिकार एव नास्ति । यदुक्तं तुच्छा गारवबहुला | चलिंदिया दुब्बला धिईएय । एएण कारणेण भूयावाओ य नो थीणंति । अशेषविशेषान्वितस्य समग्रवस्तोमस्यभूतस्य सद्भूतस्य वादो भणनं यत्रासौ भूतवादः दृष्टिवादोभिधीयते । दीर्घत्वं तकारस्यार्षत्वात् ॥ सावज्ज गाहा ॥ सावद्ययोगविरतिरर्थाधिकारः सामायिकस्य । जिनगुणोत्कीर्त्तनं चतुर्विंशतिस्तवस्याधिकारः । गुणवतः प्रतिपत्तिर्वन्दनकस्यार्थाधिकारः । स्खलितस्य निन्दा प्रतिक्रमणस्यार्थाधिकारः । व्रणचिकित्साsaiकार कायोत्सर्गस्य । गुणधारणा च प्रत्याख्यानस्यार्थाधिकारः । इति गाथाक्षरार्थमात्रं ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112