Book Title: Agam 44 Chulika 01 Nandi Sutra
Author(s): Chandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 95
________________ नंदीसूत्र-टीकायाः ष्टकबाहुआदर्शकादिसम्बन्धिनीभिः प्रश्नविद्याभिः अंगुष्टादीनामादेशनात् शुभाशुमं कथ्यते । नागसुपर्णैः सह भवनपतिविशेषैरूपलक्षणत्वाद्यक्षादिभिश्च सह साधकस्येति गम्यते । दिव्यास्तात्त्विकाः संवादाः शुभाशुभगताः संलापाः आख्यायन्ते । नागादयोऽवतारिताः स्मृता वा संत आग स्य शुभाशुमं कथयन्ति । नवरं यद्यपीहाध्ययनानां · दशत्वादशैवोद्देशनकाला भवन्ति । तथापि वाचनान्तरापेक्षया पञ्चचत्वारिंशदिति सम्भाव्यते । इति पणयालीसमित्यायविरुद्धं । फलविवाग इति । फलरूपो विपाकः फलविपाकः स आख्यायते ॥ - प्रायो व्यवच्छिन्नमिति । प्रायोग्रहणेन प्रथमानुयोगमात्रस्यास्तित्वं तत्काले सूचयति उत्तरमेयओतेयासी वि डंति । मूलभेदसप्तसु मध्यादाद्यद्वयस्य प्रत्येकं चतुर्दशभेदत्वात् ॥२८ तृतीयादि शेषभेदपञ्चकस्य प्रत्येकमेकादशभेदत्वात ५५ सर्व भेदाः ८३ व्यशीतिर्भवंति । नयचिन्ताएवित्ति । नयचिन्तायामपि । सुत्तंछिन्नन्ति । अपरनिरपेक्षं । चउरोवासाउत्ति । छिन्नछेदनय २२ अछिन्नछेदनय २२ त्रिकनय २२ चतुष्कनया २२ भिप्रायतः चतस्रः । सव्वेसि आयामातित्थस्स पवत्तणे पढमयाए । सेसाई अङ्गाई एक्कारस आणुपुवीए । इति सम्पूर्ण गाथा ॥ किन्तु साउवणत्तिस्थापनामाश्रित्य निर्युक्तावभिहितं प्रथमत्वं । अक्षररचनयानुपूर्वाणिरच्यन्ते । अट्ठमेकम्मापवायपुव्वे पयइठिइ अणुभाग पएसाइएहिति ॥ एतत्स्वरूपं यथा । स्वभावः प्रकृतिः प्रोक्ता स्थितिः कालावधारणं । तद्रसोऽनुभागःस्यात्प्रदेशोऽशप्रकल्पनं । यद्वा । ठिइबन्धु दलस्स ठिइ । पएसबंधो पएसगहणं जं ताणरसोऽणुभागोतस्समुदाओ पगइबन्धो । पारसमे अन्नेयपाणावत्तियत्ति इन्द्रियादयः तेरसामछंदकिरियाविहाणायति । पज्जवियणाणि तन्मध्यासार्दूलादिरूपाणि । छंदांसि क्रियाश्च करोति । भवत्यादय एतासां विधानानि वर्ण्यन्ते इति क्रियाविशालां ॥ __उप्पायपुव्वस्सणमित्यादि नवरं वस्तुनियतार्थाधिकारप्रतिबुद्धो ग्रन्थविशेषोऽध्ययनवत् । समस्त सुयनाणिणो चउदसपुव्वधरा ॥ एकवक्तव्यतार्थाधिकारानुगता वाक्यपदातयो गण्डिका उच्यन्ते । दसारगंडियाउत्ति । दशाह समुद्रविजयादयो दश वसुदेवान्तास्तत्प्रतिबद्धगण्डिका दशार्हगण्डिकाः । आइंव्वजसाईणमित्यादि । ऋषभनिर्वृतिप्राप्तानन्तरं ऋषभस्य पउए पत्थोप्पए आदित्ययशःप्रभृतीनां नरपतीनां सङ्ख्यां सिद्धिसर्वार्थसिद्धिगमनविषयां सगरसुतानामग्रतः सुबुद्धिनामामात्यः परिकथयति । नृपतीनां चतुर्दशलक्षाः सिद्धा। एको लक्षः सर्वार्थे एवमेकैकस्थाने पुरुषयुगान्यसङ्ख्येयानि भवन्ति । तदनन्तरं चतुदशलक्षाः सिद्धाः द्वौ लक्षौ सर्वार्थे । अत्रापि पुरुषयुगान्यसङ्ख्येयान्यतिक्रान्तानि । अनया रीत्या । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112