Book Title: Agam 44 Chulika 01 Nandi Sutra
Author(s): Chandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
नंदीसूत्र-दीका
ऽज्ञाततया कृतो जीवेन योसौ बन्धः । तस्य वैफल्यादयः विफलस्वादयः उदयपरिशावादयस्तेषां प्रतिपत्तिः सैव लक्षणं येषां ते सत्त्वमियादि । एत एव सप्त सदादयः जैनमते स्यात्पदलाञ्छिता । सप्तभङ्गीति व्यपदेश्या भवन्ति । सर्वं वस्तु सप्तभङ्गीस्वभावं ते चामी स्वद्रव्यक्षेत्रकालभावापेक्षया स्यादस्ति ।१ परद्रव्यापेक्षयास्यान्नास्ति२। तथा कस्यचिदंशस्य स्वद्रव्याद्यपेक्षया विवक्षितत्वात् कस्यचित्त्वंशस्य परद्रव्याद्यपेक्षया स्यादस्तिनास्ति नास्ति चेति ।३ सदसतोरेवधर्मयो?गपद्येनाभिधातुमशक्यत्वात् स्यादवक्तव्यं । ४ तथैकस्यांशस्य स्वदव्याद्यपेक्षयाऽपरस्यतु सामस्त्येन स्वपरद्रव्याद्यपेक्षया विवक्षितत्वात् स्यादस्ति वा वक्तव्यं चेति । ६ तथैकांशस्य स्वद्रव्याद्यपेक्षया परद्रव्याधपेक्षयाऽन्यस्य तु योगपयेन स्वपरद्रव्याद्यपेक्षया विवक्षितत्वात्स्यादस्ति च नास्ति वा वक्तव्यं चेति ॥ ७ इयं सप्तभङ्गी । अज्ञानिकास्तु को जानाति जीवः सन्नित्यायज्ञानवादाभ्युपगमपरा इत्ययथावादित्वात्प्रतिक्षेपार्हाः अनववृतमनियतं लिङ्गमाचारः शास्त्रं च येषां ते तथा । विनयपतिपत्तिरेव लक्षणं येषां अवमो लघुः । सूत्रे तेत्तीसं उद्देसणकालत्ति । चउतिय चउरो दो दो । एकारसचेवहुति एगसरा सत्तेव महज्झयणा । एगसरावीय सुरखंधे । सर्वे ३३ ॥ ठाण सूत्रं सुगमं । नवरं एक उत्तरो ये बुद्धयादिषु तान्येकोत्तराणि ॥ समवायसूत्रं सुगमं । नवरं ठाणगसयवस्थियागंति ॥ स्थानकशतं यावत् विवर्द्धितानाम् । पल्लवगो समासिज्ज इति । पर्यवपरिमाणमभिधेयादि तद्धर्म सङ्ख्यानं । यथा परिन्नातसा इत्यादि पर्यङ्कः । पल्यङ्कः । इत्यादिवत् पल्लवनिर्देशः प्राकृतत्वात् पर्यवशब्दस्यैव । यद्वा पल्लवाइओ पल्लवा आवयवास्तदग्रं तत्परिमाणं । समासिज्जइ प्रतिपाद्यते । इति समवायाङ्गवृत्तौ व्याख्यातं । कथं व्याख्येति । व्याख्यायंते जीवादयोऽर्था यस्यां सा व्याख्या । पञ्चमङ्गं रूढ्योच्यते । सूत्रे एगे साइरेगेऽज्झयण स एत्ति पदं चिरन्तनवाचनागम्यमिदं । नेदानी सम्प्रति वाचनायामेकचत्वारिंशत्सङ्ख्यशतानि सन्ति शतशब्देन अध्ययनसंज्ञा ॥
यद्वा । ज्ञातानि च धर्म कथाश्च ज्ञाताधर्मकथास्तद्योगो ग्रन्थोपि तथोच्यते पढमसुयक्खंधिनायाणि एगूणवीसं नायाणं नगराइं इत्यादि सूत्रं । उद्यानानि पुष्पफलच्छायो एगवृक्षोपशोभितानि । यद्वा यत्र वस्त्रालंकृतदेहाः सन्निहिताशनाद्याहारा लोका येषु क्रीडन्ति तान्युद्यानानि । चैत्यानि व्यन्तरायतनानि । वनखण्डा अनेकजातीयैरुत्तमैर्वृक्षरुपशोभिताः । समवसरणानि तीर्थकरादीनां धर्मदेशनाभूमयः । ऐहलौकिका ऋद्धिविशेषा अनेककोटीसंख्या द्रव्यादिसम्पद्विशेषाः पारलौकिकाश्च स्वर्गादि समृद्धिरूपाः भोगपरित्यागा व्रतग्रहणेन प्रव्रज्यापर्याया व्रतपरिपालनकालमानरूपा पाओयगमणाई तिपादपोपगमाभिधानमनशनं तत्प्रतिपत्तय । प्रेत्य जिनधर्मप्राप्तिर्बोधिलाभः । भावापेक्षया अन्ताश्चताः क्रियाश्चान्ता(त्ता)क्रियास्ताश्चशैलेश्यवस्थाद्यागृह्यन्ते इत्येवं नगरादीन्याख्यायन्ते । द्वितीयश्रुत
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112