Book Title: Agam 44 Chulika 01 Nandi Sutra
Author(s): Chandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
दुर्गपदव्याख्या स्कन्धस्वरूपमाह-थिइएत्यादि । तन्विसेसेण विसिट्रेत्यादि । ततश्चार्थाधिकारसमूहात्मकानाध्ययनान्येव दशवर्गा द्रष्टव्याः । इगवीसं कोडिसयं गाहा । अस्यानयनं ५४० अनेन प्राचीनस्य गुणने ४८६० जातं । अस्य च पञ्चशतैर्गुणने २४३०००० अस्यापि पञ्चशतैर्गुणने १२१५०००००० आपन्नं । एवंठिए समाणेति । प्रथमश्रुतस्कन्धवक्तव्यतायां भणितायां । अहिमयसुन्नस्स पच्छावोत्ति प्रथमश्रुतस्कन्धकथानकसंख्यानानन्तरं द्वितीयश्रुतस्कन्धकथानकभेदप्ररूणाय प्रस्तावो दशधम्मकहणेगन्धाप्रत्यादिकस्य । तदेवाह । तं जहेत्यादि । पणवीस कोडिसयं गाहा । अस्य दशकस्य । १० पञ्चशत गुणने ५००० अस्यापिपञ्चभिः शतैर्गुणने २५००००० अस्यापि पञ्चशतैर्गुणने १२५००००००० जातं समलक्षणमतिगच्छन्तीति स समलक्षणातिगानि ज्ञातानि यस्मात्सन्ति ततस्तानि शोध्यन्ते । इमाओ ससीउत्ति ॥
१२५००००००० एतस्मादयं राशिः १२१५०००००० विशोध्यः । ऊर्ध्वाधोभावेन द्वावपि विनस्यतेतो भवतीदं ३५००००००संख्यानं । उवासगदसत्ति । दशाध्ययनामिका• उपासकसमाचारगोचरा ग्रन्थपद्धतयः अत्र श्रमणोपासकानामानन्दकामदेवादीनां नगरादीन्याख्यायन्ते । सीलद्वयेत्यादि । शीलवतान्यणुव्रतानि । गुणा गुणवतानि । विरमणानि रागादिविरतयः । प्रत्याख्यानं नमस्कारसहितादि । पौषधोपवासः । पर्वदिनोपवसनं । आहारादित्यागरूपः । एतेषां प्रतिपादनानि प्रतिपत्तयः नान्याख्यायन्ते । पडिमाउत्ति । एकादशोपाशकप्रतिमाः । कायोत्सर्गा वा । उपसर्गा देवतादिकृतोपद्रवाः पाउवममणाइति पादपोपगमनेनेव यदनशनं तदत्र ग्राह्य । न पुनः श्रावकाणां साक्षात्पादपोपगमनप्रतिपत्तिस्ति । भक्तपरिज्ञयैव तन्मरणाभ्युपगमात् । यदुक्तं । सव्वाविय अज्जाओ । सवे वि हु पढमसंघयगवजा । सव्वेवि देसविरया । पच्चक्खाणेण उ मरन्तीति । प्रत्याख्यानं नाम भक्तपरिज्ञोच्यते ॥
अन्तगडदशासूत्रं सुगमं नवरं भोगपरिभोगा इति पदं तत्र परिहरणाहोइ परिभोगोत्तिवचनाद्भोगविषयः परिभोगः परित्याग एवोच्यते । अत्र सव्वाणि अज्झयणाणि जुगवमित्यादि । अध्ययनसमूहात्मको वर्गों यतो युगपदुपदिश्यतेऽतः सर्वाण्येकवर्गगतानि युगपदुपदिश्यन्ते ।।
पण्हावागरणाइं इत्यादि । प्रश्नानां च व्याकरणानां च योगात् प्रश्नव्याकरणानि । तेष्विति बहुवचनं बहुत्वात्स्यात् । अद्रुत्तरमित्यादि । तत्राङ्गुष्टबाहुप्रश्नादिका मन्त्रविद्याः प्रश्नाः । याः पुनर्विधिना भण्यमाना अपृष्टा एव शुभाशुभं कथयन्त्येता अप्रश्नाः । तथा अङ्गुष्टादि प्रश्नाभावं च प्रतीत्य या विद्याः शुभाशुमं कथयन्ति ताः प्रश्नाप्रश्नाः । उभयरूपा ज्ञेयाः तथाऽन्ये विचित्रा दिव्या विचित्रा विद्यातिशयाः स्तम्भस्तोभवशीकरणविद्वेषीकरणोच्चाटनादयः । अङ्गु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112