Book Title: Agam 44 Chulika 01 Nandi Sutra
Author(s): Chandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
mar
दुर्गपदव्याख्या णमित्यादि । द्वितीयसूत्रात् केवलाक्षरं प्रथमसूत्रे गम्यते न तु श्रुताक्षरं । श्रुताक्षरपक्षे हि सकलद्वादशाङ्गविदां सम्पूर्णस्यापि श्रुताक्षरस्य उद्घाटसद्भावात् । सर्वजीवाश्रितोऽक्षरस्यानन्तभागो नित्योबाट इति । नोपपद्यते । अत्रार्थे ययेवमित्यादिना सूरि—ते हंत एवं सति केवलाक्षरमपि तत्र नोपपद्यते । केवलिनां सम्पूर्णस्यापि केवलाक्षरस्य सद्भावात् । सर्वजीवानामक्षरस्यानन्तभागो नित्योद्घाट इत्यस्यार्थस्यानुपपत्तिरेव नातस्तदिति तत्सूत्रोक्तं । केवलाक्षरमपि नोपपद्यते इत्यर्थः । अथ मनुषे तत्राविशेषेण सर्वजीवग्रहणे सत्यपि प्रकरणादपि शब्दाद्वा केवलिनो विहायान्येषां एवाक्षरस्यानन्तभागो नित्योद्घाट इति केवलाक्षरग्रहणे विरोधः । हन्त तदेतच्छ्ताक्षरग्रहणेपि समानं यत्रस्तत्राविशेषेण सर्वजीवग्रहणे सत्यपि प्रकरणादपि शब्दाद्वा समस्तद्वादशाङ्गविदो विहायान्येषामेवास्मदादीनामक्षरस्यानन्तभागो नित्योद्घाट इतीहापि शक्यत एव वक्तुं । यस्मात्प्राक्तनसूत्रे केवलाक्षरं द्वितीये चाकाराद्यक्षरमपि च भवतु न कश्चिद्दोषः न च श्रुताक्षरस्य सर्वव्यपर्यायपरिणामता विरुध्यते इति वाच्यं । स्वपरपर्यायभेदादुभयस्यापि तदुपपत्तेः । उभयं श्रुताक्षरं केवलाक्षरं चेत्यर्थः । तथाप्यत्रेत्यादि । तत्पुनरकाराद्यक्षरमेकैकमप्यनन्तपर्यायं । इदमुक्तं भवति । इह समस्तत्रिभुवनवर्तीनि यानि परमाणुद्वयणुकादीन्येकाकाशप्रदेशादीनि च यानि द्रव्याणि ये च सर्वे वर्णास्तदभिधेयाश्चार्थास्तेषां सर्वेषामपि पिण्डितो यः पर्यायराशिवति स एकैकस्याप्यकाराद्यक्षराद्यक्षरस्य भवति पिण्डितराशिमध्ये ह्यकारस्य किश्चित् स्तोकाः स्वपर्यायास्ते चानन्ताः । शेषास्त्वगंतानन्तगुणाः परपर्यायाः इत्येवं सङ्ग्रहः । अयं च सर्वोपि सर्वद्रव्यपर्यायराशिः सद्भावतोऽनन्तानन्तस्वरूपोप्यसत्कल्पनया किल लक्षं पदार्थाश्चाकारेकारादयो धर्मास्तिकायादयः सर्वाकाशप्रदेशसहिताः सर्वोपि किल सहस्रं । तत्रैकस्याकारपदार्थस्य सर्व द्रव्यगतलक्षपर्यायराशिमध्यास्तित्वेन सम्बद्धाः किल शतप्रमाणाः स्वपर्यायाः शेषास्तु नास्तिस्वेन । सम्बद्धाः सर्वेपि परपर्यायाः। एवमिकारादेः परमाणुद्वयणुकादेश्चैकेक द्रवस्य वाच्यं । आह के पुनः स्वपर्यायाः । के च परपर्याया यद्वशेनानन्तपर्यायता स्यादिति दर्शयति । उदात्तानुदात्ते. त्यादिना एवं यावत इति । यानुदात्तानुदात्तसानुनाशिकनिरनुनाशिकादीनात्मगतान्पर्यायान् । केवलोन्यवणेनासंयुक्तोऽन्यवर्णसहितो वा लभतेऽनुभवति ते तस्य स्वपर्यायाः प्रोच्यन्ते । अस्तित्वेन सम्बद्धत्वात् ते चानन्ताः तद्वाध्यस्य विष्णुपरमाण्वादिद्रव्यस्यानन्तत्वाधस्मात्संरव्येयानामप्यक्षराणामभिधेयं पश्चास्तिकायगोचरमन्योन्यविलक्षणमनन्तं तथाहि परमाणोः प्रारभ्य क्रमशः प्रदेशवृद्धया पुद्गलास्तिकायेपि सर्वदैवानन्तानि भिन्नरूपाणि द्रव्याणि प्राप्यन्ते । भिन्नाभिधानानि चैतानि । यथा परमाणुळेचणुकस्यणुकश्चतुरणुको यावदनन्तप्रदेशिक इति । प्रत्येक वानेकाभिधानान्येतानि । तद्यथाऽणुः परमाणुः निरंशो निर्भेदो निरवयवो निःप्रदेशोऽप्रदेश इत्यादि । तथा चणुको द्विप्रदेशिको द्विभेदो द्वयवयव इत्यादि । सर्व द्रव्यपर्याये वा योजनीयं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112