Book Title: Agam 44 Chulika 01 Nandi Sutra
Author(s): Chandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
दुर्गपदव्याख्या
७-३
1
आकाशपर्यायेभ्यः स्तोका अनन्तभागवर्त्तिनस्त इति कृत्वा । किन्तु य एव तेभ्योऽतिबहवो - अनन्तगुणास्तएव सर्वाकाशपर्यायाः T: साक्षादुक्ताः । अर्थतस्तु धर्मास्तिकायादिपर्याया अपि स्वीकृता एव द्रष्टव्याः । एवं च सर्वाकाशप्रदेशानां यावन्तः सर्वेपि पर्यायाः सर्वद्रव्यपर्यायाश्चतावदेकस्याक्षरस्य पर्यायमानं भवति । अथ किमिति सर्वाकाशप्रदेशाग्रं सर्वाकाशप्रदेशैरनन्तगुणमुक्तं || उच्यते ॥ यत एकैकस्मिन्नाकाशप्रदेशे अनन्ता अगुरुलघुपर्यायाः सन्ति अतः इदमुक्तं । अयमर्थः । इह निश्चयमतेन बादरं वस्तु सर्वमपि गुरुलघु सूक्ष्मं त्वगुरुलघु । तत्र गुरुलघुवस्तुसम्बन्धिनः पर्याया अप्यगुरुलघवः समयेभिधीयन्ते । आकाशप्रदेशाश्चागुरुलघवोऽतस्तत्पर्याया अप्यगुरुलघवो भण्यन्ते ते चाकाशप्रदेशेषु प्रत्येकमनन्ताः सन्त्यतस्तैरनन्तगुणमुक्तं । अथेदं सर्वद्रव्यपर्यायपरिणामाक्षरं कीदृशमित्याह । इह चेत्यादि ॥ न क्षरति न चलत्य - नुपयोगेपि न प्रच्यवत इत्यक्षरं । स च चेतनाभावः जीवस्य ज्ञानपरिणाम इत्यर्थः । तज्ज्ञेयमिति । तस्य ज्ञानस्य ज्ञेयं घटव्योमादि तज्ज्ञेयं । साभिलापज्ञानविषयभूतघटाद्यभिलाप्यार्थरूपं । ज्ञेयमप्यक्षरमुच्यते । कथमिति चेद्यतो घटव्योमा भिलप्य द्रव्यार्थतया न क्षरति स्वरूपान्न चलति नित्यत्वादित्यक्षरं । तथा अकारादीन् अर्थान् अभिधेयान् क्षरति संशब्दयतीति निरुक्तविधिना'र्थ' कारलोपादक्षरमकारादिवन्नी रुपं । वर्णश्च वर्ण्यते प्रकाश्यतेऽर्थोऽनेनाकारककारादिनेति वर्णः अकारादिरेव । त्रिविधेप्यक्षरे गृह्यमाणेऽदोषोत्र नन्वेतत्सर्व पर्याय परिणामाक्षरं किं सर्वमपि ज्ञानावरणकर्मणा आवियते न चेत्याह । अस्य चेत्यादि । अस्य च सामान्येनैव सर्वपर्ययपरिणामा - क्षरस्यानन्तभागो नित्योद्घाटितः सर्वदेवावृत एवास्ते केषां सर्वजीवानामपि चकारात्केवलिवर्जानामिति दृश्यं तदक्षरस्य सर्वात्मनोद्घाटात् स च जघन्यमध्यमोत्कृष्टभेदादनेकविधः । तंत्र सर्वजघन्यस्याक्षरानन्तभागस्य स्वरूपमाह । तत्रेत्यादि सर्वजघन्योऽक्षराऽनन्तभाग आत्मनो जीवत्वनिबन्धनं' चैतन्यमात्रं उत्कृष्टावरणेपि सति जीवस्य कदाचिदपि नात्रियते । जीवस्वाभाव्यादन्यथाऽजीवत्वप्रसङ्गात् । यथा सुष्ठवपि जलदच्छन्नार्कचन्द्रप्रकाशो दिनरात्रिविभागनिबन्धनं किञ्चित्प्रभामात्रकारि मेघेन नात्रियते । एवं जीवस्यापि चैतन्यमात्रं कदापि नावियते । केषां पुनरसौ सर्वजघन्यः प्राप्यते । उच्यते । स्त्यानर्द्धिमहा (नि) द्रोदय सहितोत्कृष्टज्ञानावरणोदयादसौ सर्व जघन्योऽक्षरानन्तर्विभागः पृथिव्याद्ये केन्द्रियाणां प्राप्यते । ततः क्रमविशुद्धया द्वीन्द्रियादीनामसौ क्रमेण वर्त्तते । अथोत्कृष्टो मध्यमश्चाक्षरानन्तभागः केषां भवत्यत्रोच्यते । उत्कृष्टोसावुत्कृष्टश्रुतविदः स्यात् सम्पूर्णमप्यस्य प्राप्यत एव । सत्यं किन्तु संलुलितसामान्यश्रुत के वलाक्षरापेक्षया एव समस्तश्रुतविदोऽक्षरानन्तभागो विवक्षितः सामान्ये चाक्षरे विवक्षिते केवल्यक्षरापेक्षया सम्पूर्णश्रुतविदोऽक्षरस्यानन्तभाग
१०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/3f3ec5f261820dbed0d5c0a4d9c38131579b35849d1cb93c8e82bc6d1b8e201d.jpg)
Page Navigation
1 ... 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112