Book Title: Agam 44 Chulika 01 Nandi Sutra
Author(s): Chandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 82
________________ H दुर्गपदव्याख्या सर्वदैव वर्त्तत्तेऽतोऽनाथपर्यवसितं सामान्येन हि महाविदेहेत्सपिण्यभावरूपनिजकालविशिष्टेषु द्वादशांगश्रुतं कदापि न व्यवच्छिद्यते ॥ तीर्थकरगणधरादीनां तेषु सर्वदैव भावात् । कालेत्वधिक्रियमाणे उत्सर्पिण्यवसर्पिण्यो समाश्रित्य भरतैरावतेषु द्वयोरपि समयोस्तृतीयारके प्रथम भावात् सादित्वं । उत्सर्पिण्यां चतुर्थस्यादौ । अवसर्पिण्यां तु पंचमस्यांते अवश्यं व्यवच्छेदात्सपर्यवसितत्वं । कालचक्रगाथास्त्रयोविंशतिसंख्याः सुगमा नवरं तुडितांगेषु संगीतं भवति । तत्र प्रेक्षार्थ गीतवाद्य संगीतमुच्यते । तुटितानि बाहुरक्षादीन्याभरणानि च । अणइन्ने सुवत्ति । अनाग्न्येषु । अन्ने सुयत्ति । दशातिरिक्तेषु भवियपुणब्भवरहियत्ति । युगलधार्मिकत्वमनुभूयमृत्वा भूयोप्यनंतरभावेन युगलधार्मिका न भवंति । किं तु देवत्वेनोत्पद्यते । असंक्लिष्टपरिणामयोगात् । भावओ णमित्यादि । भावे पुनर्विचार्यमाणे प्रज्ञापकं गुरु' श्रुतपज्ञापनीयांश्चार्थानासाद्य सपर्यवसितं स्यात् । कथं । प्रज्ञापकसंबंधि उपयोगे १ स्वर २ प्रयत्न ३ आसन विशेषतः । उपयोग आंतरः श्रुतपरिणामः । स्वरो ध्वनिः । प्रयत्नस्ताल्वादिव्यापारविषयो यत्नः। आसनविशेषश्च स्थानविशेषः । ततश्च प्रज्ञापके गुरौ न्याख्यानादि कुर्वति सत्येते भावा भवंति । एते च प्रतिक्षणमन्यथाभवनतोऽनित्यत्वात् सादिसपर्यवसिताः ततश्चैतानाश्रित्यवक्तुरनन्यत्वाच्छूतमपि सादि सपर्यवसितं भवति । एतदर्थाभिधायिनी गाथा सुगमैव । अथवेत्यादिना प्रज्ञापनीयार्थगतान् भावानाह ॥ तत्र अण्वादीनां गत्यादिप्रतिपादनात्सादिसांतत्वं । नवरं गतिरण्वादीनां गमनपरिणामः स्थितिस्तेषामेवावस्थितपरिणामः । वर्णः कृष्णादिः । आदिशब्दात्भेदसंघातशब्दरसगंधस्पर्शसंस्थानादिपरिग्रहः । नवरं भेदोऽण्वादीनामेवान्यसंयुक्तानां विघटनं । संघातस्त्वन्यैः सह संयोगः । शब्दो मंद्रमधुरादिः । रसादयः प्रतीताः । एते गतिस्थित्यादयो भावाः पर्यायधर्माः प्रज्ञापनीयार्थेषु परमाण्वादिषु भवंति । अनित्यस्वाच्चामी सादिसपर्यवसिताः । एते श्रुतस्य ग्राह्या ग्राहकं. च ग्राह्यनिबंधनं भवति । ग्राह्यं यत्स्वरूपं किल गृह्यते ग्राहकं तत्स्वरूपं ततो भवत्यतः श्रुतमपि सादिसपर्यवसितं क्षायोपशमिकभावभावश्रुतभावापेक्षया अनाद्यनंतत्वं श्रुतस्य ॥ ॥ यद्वा श्रुतस्य सद्यो प्ररूपणायां सादिसपर्यवसानपदद्वयोत्था चतुर्भगी संभवति सादिसपर्यवसितमित्यादिकेति क्रमेण भावयति । द्वितीयस्तु प्ररूपणामात्रमसंभवात् विवक्षया संभवति । तामेवाह ॥ अभव्यस्येत्यादि । वर्तमानकालापेक्षया सादित्वं अनागताद्धापेक्षया पर्यवसितत्वं । इह किल सम्यग्मिध्याभावेनाविशेषितं श्रुतं सामान्यमानं ग्राह्य । अतएव भव्यस्य एतच्छ्रतमात्रं भव्यत्ववत् । अनादिकालादारभ्य भावादनादिकेवलोत्पत्तौ न भविष्यतीति । सपर्यंतं । अभव्यस्य त्ववजीवत्वबद्धा नियतं अनाथपर्यंत । अभव्यस्य कदाचिदपि श्रुतमात्राव्यवच्छेदात् । अथ तृतीयचतुर्थ iithiilli Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112