Book Title: Agam 44 Chulika 01 Nandi Sutra
Author(s): Chandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
नंदीख-PTA भंगौ श्रुतविषये भव्याभव्यौ . प्रतीत्याभिहितौ मतेः श्रुताविनाभूतायास्तर्हि का वार्ता इत्या शंक्याह ॥ इह चेत्यादि ।
एवमेव द्रष्टव्य इति भव्याभव्यद्वारेण तृतीयचतुर्थभङ्गद्वयं अनादिमतिभावेपि योज्यं । अनादिमतिभावः । सपर्यवसितः । अनादिमतिभावो। अपर्यवसितः । भव्याभव्यौ प्रतीत्य । लाभकाले तस्य सादित्वं । प्रतिपाते तु सातत्वमिति सादिसांतता कथं पुनः स्तत्प्रतिपातसंभवः । यदि जीवात्तच्छूतं भिन्नं तदा श्रुतस्य युज्येत नाशो नाभिन्नस्य । अथ भिन्नमेव तत्तस्मात्तहिं भिन्नश्रतसद्भावेपि जीवो अज्ञान्येच नित्यं स्याच्छ्रुतस्वभावरहितत्वाच्छृतप्रकाश्यमर्थ न पश्येत् । यथांध आत्मव्यतिरिक्तेन हस्तगतेनापि प्रदीपेन तत्प्रकाश्यमर्थं न पश्यति । अत्रोच्यते । हंत श्रुतज्ञान नियमाज्जीवस्वभावमेव नाजीवस्वभावं । जीवः पुनः श्रुतमेव केवलं न भवति । किंवसौ श्रुतज्ञानं भवेत् । श्रुतज्ञानं वा । मतिज्ञानं मत्यज्ञानं वा विभंगोवधिःमनःपर्याय केवलज्ञानं चेति । यदि श्रुतज्ञानं जीवस्वभावमेवेतीष्यते। तर्हि जीवात्तदव्यतिरिक्तमिति सुत एवाभ्युपगतं युक्तं चैतदेवं हि सति युज्यते। जीवस्य श्रुतकृतक्स्ववबोधाज्ञानित्वं । केवलं श्रुतस्य नाशे जीवस्य नाशः स्यात्तदव्यतिरेकात् । यथातोऽव्यतिरिक्तं तस्य विनाशे तद्विनश्यत्येव । थथा घटस्वरूपविनाशे घटवस्विति । तदयुक्त ॥ अस्तु श्रुतस्य नाशे जीवस्य तत्पर्यायविशिष्टतामातात्वितस्य नाशः न पुनः सर्वात्मना पर्यायांतरविशिष्टस्यापि जीवस्य नाशः। यस्मादसौ जीव उत्पादव्ययधौव्यधर्मानंतपर्यायश्च वर्तते । ततो यदैवासौ श्रतपर्यायेण विनश्यति तदैव श्रुतज्ञानादिपर्यायेणोत्पद्यते । सचेतनत्वामूर्त्तत्वसत्त्वप्रमेयत्वादिभिरनुगतैरन्यथा वृतैश्चानंतैः पर्यायैविशिष्टोसौ. सर्वावस्थास्ववतिष्ठते । अतः कथं श्रुतपर्यायमात्रविनाशे जीवस्य सर्वथा विनाशः स्यात् । यदि हि तस्यायमेवैकः पर्यायो भवेत्तदा तद्विनाशे तस्य सर्वनाशः । स्यादेतच्च नास्ति श्रुतपर्यायमात्रेण विनष्टस्यापि तस्य श्रुताज्ञानादिपर्यायेणोत्पादाबथोक्तैश्चानं. तपर्यायः परव्यावृत्तादिरूपैविशिष्टस्य सर्वदैवावस्थानादिति न किंचिदूषणमापतति । तदेव सादिश्रुतं ज्ञानात्मक सम्यग्द्रष्टेः अज्ञानात्मकं वा । सादिसम्यक्त्वाच्च्युतस्य जंतो मिथ्याद्रष्टेः सतः अलब्धपूर्वसम्यक्त्वस्य तदेवानादिश्रुतं सपर्यवसितं भव्यानां केवलोत्पत्तौ ध्रुवं पर्यवसानात् अपर्यवसितमभव्यानां केवलोत्पादानहत्वादिति साद्यादि भावार्थः ॥ ॥ पर्यायाग्राक्षरं निष्पद्यते इत्यादि । यद्यपीह केवलसर्वाकाशप्रदेशपर्यायराशिप्रमाणमक्षरपर्यायप्रमाणमुक्तं । , तथापि धर्मास्तिकायादि पञ्चद्रव्यपर्याया अप्यक्षरस्य पर्यायमानतया द्रष्टव्याः अत एवोक्तं सर्वद्रव्यपर्यायपरिमाणमिति भावार्थ इति ॥ यद्येवं धर्माधर्माकाशपुद्गलास्तिकायकाललक्षणसर्वद्रव्यपर्यायराशिप्रमाणं अक्षरपर्यायमानं सूत्रकृता किमिति नोक्त मित्याह ॥ स्तोकत्वाच्चेति । सूत्रे धर्मास्तिकायादौनां पञ्चद्रव्याणां पर्याया नाभिहितास्साक्षात् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112