Book Title: Agam 44 Chulika 01 Nandi Sutra
Author(s): Chandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
नदीसूत्र-टीकायाः वतित्वं युध्यत एव केवलज्ञानस्वपर्यायेभ्यः श्रुतज्ञानस्वपर्यायाणामनन्तभागवर्त्तित्वात् श्रुतज्ञानस्य परोक्षविषयत्वेनास्पष्टत्वाच्च । यच्च समुदितस्वरपर्यायाश्रुतकेवलाक्षरयोस्तुल्यत्वं तदिह न विवक्षितं । विमध्यमाक्षरानन्तभागश्चोत्कृष्टश्रुतज्ञानविदः सकाशादवशेषाणां पृथिव्यायेकेन्द्रियसम्पूर्णश्रुतज्ञानिनोर्मध्यवर्तमानानामनन्तभागादिषट्स्थानपतितानां प्रायेणासौ भवति । प्रायोग्रहणाद्विवक्षितादेकस्मादुत्कृष्टश्रुतज्ञानिनोऽवशेषाणामपि केषाश्चिदुत्कृष्टश्रुतज्ञानवतां तत्तुल्य एवाक्षरानन्तभागो भवत्युत्कृष्ट इत्यर्थः । न तु विमध्यमः त्रिवेधे यक्षरे गृह्यमाणे अविरोध इत्युक्तं । अक्षरस्य वानन्तभागः सर्वजघन्यश्चैतन्यमानं । स च पृथिव्याधेकेन्द्रियादीनामसंज्ञिसंज्ञिभेदानां सर्वजीवानामपि च सर्वदैवानावृत एवास्ते इति चोक्तं । अपर्यवसित श्रुताधिकारादकारायेव चाक्षरं न्यायानुगतीति चोक्तं । अत्राचष्टे । पुरुषस्त्रीनपुंसकघटपटादिवर्णविज्ञानरूपोसौ न युज्यतेऽक्षरलाभस्य परोपदेशजत्वान्मनोविकलानां तु तदसम्भवात् । न च वाच्यं माभवत्वसौ तेषामिति । यतोसावेकेन्द्रियाद्यसंज्ञिनामपि वर्णयाद्यसंज्ञिनामपि वर्णविज्ञानाक्षरलाभोभिहितः । श्रुताज्ञानाक्षरस्य तेषामपि श्रुते भणनात् । तदेतत्कथमुपपद्यते । अत्रोच्यते । यथा चैतन्यं जीवत्वमाहारादिसंज्ञाद्वारेणासंज्ञिनामवगम्यते । तथा लब्ध्यक्षरात्मकमूहाज्ञानमपि तेषामवगन्तव्यं । स्तोकत्वेनास्पष्टत्वात् स्थूलदर्शिभिस्तदूहाज्ञानं नोपलक्ष्यते । पृथिव्यायेकेन्द्रियाणां जीवत्वमिव । यदपि परोपदेशजत्वमक्षरस्योच्यते । तदपि संज्ञाव्यंजनाक्षरयोरवसेयं लब्ध्यक्षरं तु क्षयोपशमेन्द्रियादि निमित्तमसंज्ञिनां न विरुध्यते । तदेव च श्रुतज्ञानाधिकारे मुख्यतः प्रस्तुतं । न तु संज्ञाव्यञ्जनाक्षरे । किं च गौरपि 'शबला' 'बहुला दिशब्देनाकारिता सति स्वनाम जानीते । प्रवृत्ति निवृत्यादि च कुर्वती दृश्यते । न चैषां गवादीनां तथाविधः परोपदेशः समस्ति । अथवास्ति लब्ध्यक्षरं नरादिविज्ञानसद्भावात् पुलीन्द्रबालगोपालादीनामनक्षराणामपि वा यथा तदस्ति । एवमसंज्ञिनामपि किमपि तदेष्टव्यं । तदेव साधितमेकेन्द्रियादीनामपि । यच्च यावच्च लब्ध्यक्षरं इन्द्रियमनोनिमित्तं श्रुतग्रन्थानुसारि विज्ञानं । श्रुतज्ञानोपयोग इत्यर्थः । यश्च तदावरणकर्मक्षयोपशम एतौ द्वावपि लब्ध्यक्षरमिति भावार्थः ॥ ___ अत्राहेत्यादि । अत्रास्मिन् प्रकृते नन्दिसूत्रे विशेषितं सामान्येनैवाक्षरज्ञानमुक्तं अविशेषाभिधाने च केवलज्ञानस्य महत्त्वात्तदेवा... क्षरं गम्यते । इह तु श्रुतज्ञानविचाराधिकाराच्छ्रताक्षरमका. रायेवाक्षरशब्दवाच्यतया प्रकृतं । तत् अकारादिश्रुताक्षरं कथं केवलपर्यायमानतुल्यं भवेन्नकथंचिदित्यर्थः । अयमभिप्रायः-केवलस्य सर्वद्रव्यपर्यायवेतृत्वाद्भवतु सर्वद्रव्यपर्यायमानता । श्रुतस्य तदनन्तभागविषयत्वात् कथं तत्पर्यायमानतुल्यतेति । अत्रोच्यते-नत्वत्राप्यक्खरसन्नी संम्मंसाईयं खल्वित्यादि प्रक्रमेऽपर्यवसितश्रुते विचार्यमाणे सव्वागासपएसग्गमित्यादि सूत्रस्य पाठात् श्रुताधिकारादक्षरमकारायेवात्र गम्यते । न तु केवलाक्षरं । अथ ब्रूषे सव्वजीवाणं विय
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112