Book Title: Agam 44 Chulika 01 Nandi Sutra
Author(s): Chandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 78
________________ दुर्गपदव्याख्या किंतु यथेत्यादि । महती शोभना वेति । ज्ञानावरणकर्मक्षयोपशमजन्यमनोज्ञानसंज्ञयैव संज्ञी व्यपदिश्यते । संज्ञानं संज्ञा । मनोविज्ञानं स्पष्टरूपं तदस्ति येषां ते संज्ञिनः । नान्ये एकेंद्रियाः अमनस्कत्वात् । तदुक्तं नंदिचूर्णिकृता- कृमिकीटपतंगाद्याः समनस्का जंगमाश्चतुर्भेदाः॥ अमनस्काः पंचविधाः पृथ्वीकायादयो जीवा इति । अयमत्र परमार्थः । यथा मूच्छितादीनां सर्वेष्वप्यर्थेष्वक्तमेतज्ञानं भवत्येव मतिप्रकृष्टावरणोदयादेकेंद्रियाणामपि । ततः शुद्धतरं शुद्धतमं च द्वींद्रियादीनां आपंचेन्द्रियसन्मूर्च्छजेभ्यस्ततः सर्वस्पष्टतमं संज्ञिनामिति ॥ आह ॥ कुतः पुनश्चैतन्ये समानेपि जंतूनामिदमुपलब्धिनानात्वमुच्यते । सामर्थ्यभेदात् । सर्वक्षयोपशमवैचित्र्याद्यथातुल्येपि छेदकभावे चक्रवत्तिचक्ररत्नस्य यच्छेदसामर्थ्य तदन्येषां खड्गदात्रशिरक्षुरिकादीनां छेदकवस्तूनां न भवत्येव । किंतु क्रमशो हीयमानमेव तत्तेषु स्यादेवं चैतन्ये तुल्येपि मनोविषयिणां संज्ञिनामवग्रहेहादिषु या वस्त्ववबोधपटुता भवति । सा तथाविधक्षयोपशमविकलानां यथोक्तदीर्घकालिकसंज्ञारहितानां संमूर्छजपंचेंद्रियविकलेंद्रियैकेंद्रियाणामसंज्ञिनां न भवत्येव । क्रमशो हीनत्वादीत्यंत एवोक्कमलं विस्तरेणेति । दृष्टिवादोपदेशेन क्षायोपशमिके ज्ञाने सम्यग्दष्टिरेव । वर्तमानसंज्ञीविशिष्टसंज्ञायुक्तत्वात् मिथ्यादष्टिस्तु संज्ञीविपर्ययस्तत्त्वेन वस्तुतः संज्ञारहितत्वात् । यदि सम्यग्दष्टिरेव संज्ञी त्तहिं क्षायिकज्ञानेप्यसावस्तु किं क्षायोपशमिके ज्ञाने वर्तमानोसाविष्यते । उच्यते । क्षायिकज्ञानं केवलिनो भवति । सर्वसंज्ञी असंज्ञी वा नोच्यते यतः संज्ञानं संज्ञोच्यते । अतीतार्थस्य स्मरणमनागतस्य च चिंतन एतच्च तस्य नास्ति । सर्वदा सर्वार्थावभासकत्वेन केवलिनां स्मरणचिंतायतीतत्वादिति क्षायोपशमिकज्ञान्येव सम्यग्दष्टिः संज्ञीति । यद्येवं मिथ्थाद्रष्टिरप्यैहिकाद्यर्थविषयहिताहितविभागज्ञानात्मकस्पष्टसंज्ञासमन्वित एव दृश्यते। तत्किमित्यसौ प्रकृतिसंज्ञया संज्ञी न भवति । उच्यते । अशोभनसंज्ञोपेतत्वात्सपापितया। संज्ञी प्रोच्यते मिथ्याद्रष्टेनिमप्यज्ञानमेव । जहदुव्वयणमवयणं । कुच्छियशीलं अशीलमसईए । भण्णइ तहनाणं पि हु। मिच्छदिद्विस्सअन्नाणं ॥ कुत्सितं वचनं सदसप्य वचनं एवं संज्ञाप्य संज्ञोच्यते । इति भावः । सदसय विसेसणाओ इत्यादि प्रागुक्तवचनादतो नेह देवादिरपि मिथ्याद्रष्टिः संज्ञीति भावः त्रिविधसंज्ञाप्येकस्य जंतोः का भवतीति निरूप्यते । पंचण्हमूहसन्ना हेऊसन्नाबिइंदियाईणं सुरनारयगम्भुब्भव जीवाणं कालिगी सन्ना । ___ छउमत्थाणं सन्ना सम्मदिट्ठीण होइ सुयनाणं । मइवा वार विमुक्कासन्नाइयाय केवलिणो । पंचानां पृथिव्यादीनां यथा संज्ञा · वृत्याचारोहणाभिप्रायरूपा ओघसंज्ञा भवति । एकेंद्रियाणां संज्ञात्रयनिषेधेन जह संज्ञैव भवति नतु हेतुवादादिसंज्ञेति भावः । ऊह संज्ञायां वा संज्ञोवेति प्रागेवोक्तं । न चाहारादिका अपि संज्ञा एकेंद्रियाणामभिहिताः। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112