Book Title: Agam 44 Chulika 01 Nandi Sutra
Author(s): Chandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 76
________________ दुर्गाववाल्या कालभावी मतिविशेष एव स्मरणं स्मृतिः। पूर्वानुभूतार्थालंबनप्रत्ययः । मननं मतिः कथंचिदर्थप्रतिच्छिन्नावपि सूक्ष्मधर्मालोचनरूपा बुद्धिः तथा प्रज्ञानं प्रज्ञा विशिष्टक्षयोपशमजन्या प्रभूतवस्तु, गतयथावस्थितधर्मालोचनरूपा मतिः ॥ ... सर्वमिदमाभिनिबोधिकं कथंचिद्भेददर्शनेपि तत्त्वतः सर्व मतिज्ञानमेवेदमित्यर्थः । इति झलोकार्थः ॥॥ अत्रैतद्वयाख्यानाय भाष्यं । होइ अपोहो अवाओ सई घिई सव्वमेव मइ पण्णा । ईहासे सा सव्वं इदमाभिणिबोहियं जाण । अपोहस्तावत्किमुच्यत इत्याह ॥ अपोहोतवत्यपायः । योयमपोहः स मतिज्ञानतृतीयभेदोऽपायो निश्चय उच्यत इत्यर्थः । स्मृति पुनः धृतिर्धारणोच्यते । धारणाभेदत्वेनाक्यवे समुदायोपचारादिति । मतिप्रज्ञे मतिप्रज्ञाभ्यां सर्वमेव मतिज्ञानमुच्यते । ईहा सेसत्ति । शेषाभिधानानि त्वीहा विमर्षमार्गणा गवेषणा संज्ञालक्षणानि सर्वाण्यपीहा ॥ ईहांतरभावीनिः द्रष्टयानीत्यर्थः । एवं विशेषतःकथंचिद्भेदसद्भावेपि सामान्यतः सर्वमिदमाभिनिबोधिकज्ञानमेव जानीहि ॥ इदमुक्तं भवति । प्रदर्शितेहापोहादयोपि सर्वेपि मतिज्ञानस्य पर्यायाः अवगृहीतस्येहादि संभवात्ततोऽवग्रहशब्दोऽवग्रहणलक्षणेन धारणात्तु धरणलक्षणेन सर्व संगृह्णाति । समर्थित मतिज्ञानं । श्रुतज्ञानमुच्यते । अक्षरश्रतमित्यादि ॥ अक्षरादीनि सप्तद्वाराणि अनक्षरादि प्रतिपक्षसहितानि चतुर्दश भवंतीति चतुर्दशभेदं श्रुतं भवति । तत्र संक्षेपतः स्वरूपमिदं । अक्षरश्रुतं त्रिविधं संज्ञाव्यंजनलब्धिभेदात् । संज्ञाक्षरं नामलेख्यलिपिरूपं । यथाघटाकृतिष्वकार इत्यादि लिपिभेदतोऽनेकस्वरूपमकाराधक्षरं संज्ञाक्षरमुच्यते। भाष्यमाणः शब्दो व्यंजनाक्षरं । तदेतद् द्वित्तयमज्ञानात्मकमपि श्रुतकारणत्वादुपचारेण श्रुतमु. च्यते । लब्ध्यक्षरं तु शब्दश्रवणरूपदर्शनादेरर्थप्रत्यायनगर्भाक्षरोपलब्धिः। यस्तदावरणक्षयोपशमो यः श्रुतज्ञानोपयोगश्च एतौ द्वावपि लब्ध्यक्षरते तश्च श्रोत्रंद्रियलब्ध्यक्षरवत् । शेपेंद्रियविषयाक्षरोपलब्धिरपि श्रुतं । घटकशर्कराहंसरूततूलीरूपे विषयोपलंभे एतद्वाचकाक्षरोपलंभसद्भावात् । मनः प्रतिचयदृष्टं स्वप्ने रूपादितदक्षरोपलब्धिाह्या। अनक्षरश्रुतं श्वेडितशिरःकंपादिनिमित्तमाश्रुतमित्यादिग्रहणात्पूत्कृतसीत्कृतादिग्रहः ध्वनिमात्रत्वादिति । शब्दमात्रत्वात् । शब्दश्च भावश्रुतस्य कारणमेव । यच्च कारणं तहव्यमेव भवति भवति च तथाविधोच्छ्वसितनिस्वसितादि Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112