Book Title: Agam 44 Chulika 01 Nandi Sutra
Author(s): Chandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
दुर्गपदव्याख्या
समासेन संक्षेपेण भवंति विस्तरतस्त्वष्टाविंशत्यादिभेदभिन्नमिदं प्रागुक्तमेवेति समासः इति माथार्थः । अथ सूत्रकार एवावग्रहादीन् व्याख्यानयन्नाह । अत्थाणं उग्गहणं अवरगहं तह वियालणं ईहं । ववसायं च अवायं धरण पुण धारणं चेति । अर्थानां रूपादीनां प्रथमदर्शनानंतरमेवावग्रहणमग्रहणं ब्रुवत इति संबंध: । तथा विवरणं पर्यालोचनं । अर्थानामिति वर्त्तते । ईनमीहा ब्रूवते इदमुक्त । अवग्रहादुत्तीर्णोपायात् पूर्वं सभूतार्थविशेषोपादानाभिमुखोऽसद्भूतार्थविशेषत्यागसन्मुखश्च प्रायः काकनिलयनादयः स्थाणुधर्मा अत्र निरीक्ष्यन्ते न तु शिरः कैड्रयनादयः पुरुषधर्मा इति मतिविशेष ईहेति । विशिष्टोऽवसायो व्यवसायो निश्चयस्तं व्यवसायमर्थानामितीहापि वर्त्तते । अपायमवायं वा ब्र ुवते एतदुक्तं भवति । स्थाणुरेवायमित्यवधारणात्मकः प्रत्ययोपायोऽवायो वेति । च शब्द एवकारार्थः । व्यवसायमेव अवायमपायं वा ब्रुवते इत्यर्थः । धृतिर्धरणमर्थानामिति वर्त्ततेऽपायेन विनिश्चितस्यैव वस्तुनो अविच्युतिस्मृतिवासनारूपं धरणमेव धारणं ब्रुवत इत्यर्थः । पुनः शब्दस्यावधारणार्थत्वात् ब्रुवत इत्यनेन शास्त्रस्य पारतंत्र्यमुक्त ं । इत्थं तीर्थंकरगणधरा ब्रुवत इति । अन्ये त्वेवं पठति अत्थाणं उग्गहण - म्मि उग्गहो इत्यादि । तत्रार्थानामवग्रहणे सत्यवग्रहो नाम मतिभेद इत्येवं ब्रुवते । एवमीह्रादिष्वपि योज्यं । भावार्थस्तु पूर्ववदेव । अथवा प्राकृतशैल्याऽर्थवशाद्विभक्तिपरिणाम इति सप्तमी द्वितीयार्थे द्रष्टव्येति गाथार्थः ॥
अथैतदेवावग्रहादित्वरूपं भाष्यकारेण विवृतं ॥ यथा सामण्णत्थावग्गहणमोग्गहो भेयमग्गणमा तस्सावगमी वाओ अविच्चुइ धारणा तस्स । अन्तर्भूता शेषविशेषस्य केनापि रूपेण निर्देशस्य सामान्यस्यार्थस्यैकसामयिकमवग्रहणं सामान्यर्थावग्रहण मथवा सामान्येन सामान्यरूपेणार्थस्यावग्रहणं सामान्यार्थावग्रहणमवग्रहो वेदितव्यः पाठो युक्तः । इति चेदुच्यते । 'विचित्रत्वात्सूत्रगतेरित्थं निर्देशो अर्थतस्तु यथा स्वयोक्तं तथैव द्रष्टव्यं अपरस्त्वाह । यद्वद्ध तत्स्पृष्टं भवत्येवं विशेषबंधे सामान्यबंधस्यांतर्भावात्ततः किं स्पृष्टग्रहणेनेति तदयुक्तं । सकलश्रोतृसाधारणत्वाच्छास्त्रारंभस्य प्रपंचितज्ञानुग्रहार्थं मर्थापत्तिगम्यार्थाभिधाने प्यदोषादिति । चक्षुरिद्रियं त्वप्राप्तमेव विषयं गृह्णातीत्याह ॥ रूवं पुण पासइ अपुठ्ठे त्विति । रूपं कर्मतापन्नं चक्षुरस्पृष्टमप्राप्तमेव पश्यति । पुनः शब्दस्य विशेषणार्थत्वादस्पृष्टमपि योग्यदेशस्थमेव पश्यति । नायोग्यदेशस्थं धर्मादिद्यादिव्यहितं वा घटादीनि गाथार्थः । भासासमी सढीओ सद्दं जं सुणइ सीसयं सुइ । वीसेढीपुण सद्दं सुणेइ नियमापराधाए । भाष्यत इति भाषाव ज्ञा खा शब्दतया ऋज्य [ उच्य ]माना द्रव्यसंहतिरित्यर्थः तस्याः समाः प्रांजलाः श्रेणयः । आकाशप्रदेशपंक्तयो भाषासमश्रेणयः समग्रहणं विश्रेणिव्यवच्छेदार्थं भाषासमश्रेणिषु इतो गतः स्थित इत्यनर्थांतरं । भाषा समर्थ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112