Book Title: Agam 44 Chulika 01 Nandi Sutra
Author(s): Chandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
A
दुर्गपदव्याख्या...
यदस्मातकारणात्तेनाभिनिबोधिकज्ञानेन सर्वं द्रव्यादि मुणतीति सम्बन्धः ॥
कथंभूतमित्याह चतुर्विधं चतुर्भेदं द्रव्यक्षेत्रकालभावभेदभिन्नमित्यर्थः । कथंभूतः सन् मुणतीत्याह तस्मिन्नेवाभिनिबोधिकज्ञाने उपयुक्तः तदुपयुक्तः केनेत्याह ।
आदेशेन । कोयमादेश इत्याह ।।
आएसो त्ति एगारो इहादेसेण सव्वदव्वाइं । धम्मत्थियाइयाई जाणइ ननु सव्वभेएणं । इहादेशो नाम ज्ञातव्यवस्तुप्रकारः स च द्विविधः सामान्यप्रकारो विशेषप्रकारश्च । तत्राघादेशेन सामान्यप्रकारेण द्रव्यजातिसामान्येनेत्यर्थः ।।
सर्वद्रव्याणि धर्मास्तिकायादीनि । जानाति असंख्येयप्रदेशात्मको लोकव्यापकोऽमूर्तः । प्राणिनां पुद्गलानां च गत्युपष्टंभहेतुर्धर्मास्तिकाय इत्यादिरूपेण । कियत् पर्यायविशिष्टानि षडपि द्रव्याणि सामान्येन मतिज्ञानी जानातीत्यर्थः । अनभिमतप्रकारप्रतिषेधमाह । न तु सर्वभेदेन न सर्वे विशेषेर्न सर्वैरपि पर्यायैः केवलदृष्टविशिष्टानि तानि द्रव्याण्यसौ जानातीत्यर्थः केवलज्ञानगम्यत्वादेव सर्वपर्यायाणामिति भावः । धर्मास्तिकायादिभेदेन कथितं सामान्येन द्रव्यम् ।
अथ क्षेत्रादिस्वरूपं विशेषतः प्राह ॥
खेतं लोगालोगं कालं सव्वद्धमहव तिविहं पि। पंचोदयाईए भावे जं नेयमेवझ्यं । क्षेत्रमपि लोकालोकस्वरूपं सामान्यादेशेन कियत्पर्यायविशिष्टं सर्वमपि जानाति ननु विशेषादेशेने सर्वपर्यायविशिष्टमपि एवं कालमपि सर्वाद्धारूपं । अतीतानागतवर्तमानभेदतस्त्रिविधं वा । इत्येक एवार्थः । भावतस्तु सर्वभावानामनंतभागं जानाति । औदयिकौपशमिकक्षायिकक्षायोपशमिकपारिणामिकान्वा पंचभावान् । सामान्येन जानाति न परतः । कुत इत्याह ॥ - यद्यस्मादेतावदेव ज्ञेयमस्ति नान्यदिति ॥ इह क्षेत्रकाली सामान्येन द्रव्यांतर्गतावैव केवलं भेदेन रूढत्वात्पृथगुपादानमवसेयमिति । आदेशस्य व्याख्यानांतरमाह । आएसो तिव सुत्तं सुओवलद्धे सुतस्स मइनाणं । पसरइ तब्भावयण विणावि सुत्ताणुसारेण । अथवा आदेशः सूत्रमुच्यते । तेन सूत्रादेशेन सूत्रोपलब्धेष्वर्थेषु तस्य मतिज्ञानिनः सर्वं द्रव्यादिविषयं मतिज्ञानं प्रसरति । ननु श्रुतोपलब्धेष्वर्थेषु यत् ज्ञानं तत् श्रुतमेव भवति । कथं मतिज्ञानमित्याह ।। तब्भावणयेत्यादि तद्भावतया श्रुतोपयोगमंतरेण तद्वासनामात्र एव यद् द्रव्यादिषु प्रवर्तते तत्सूत्रादेशेनं मतिज्ञानमिति भावः ॥ एतच्च पूर्वमपि 'पूव्वं सुयपरिकम्मिय मइस्स जं संपयं सुयाईयं । तन्निस्सियमियरं पुण. अणिस्सियं मइचउक्कतं'इत्यादि प्रक्रमे प्रोक्तमेवेति गाथाचतुष्ट,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112