Book Title: Agam 44 Chulika 01 Nandi Sutra
Author(s): Chandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 71
________________ नंदीसूत्र- टीकायाः कुष्टोत्पलादिवत्समान गंधो विषयः । ततः कुष्टं गांधिकहहविक्रयो वस्तुविशेषः । उत्पलं पद्मः । अनयोः किल समानो गंधो भवति । तत ईदृशेन गंधेन किमिदं कुष्टमुत्पलं वेत्येवमीहा प्रवृत्ति: । आदिशब्दात्किमत्र सप्तच्छदाः मत्तकारिणो वा कस्तूरिका वनगजमदो वा इत्यादि परिग्रहः । रसनेंद्रियप्रभवस्येहादेः संभृतकरीलमांसादिवत्समानरसो विषयस्तत्र संभृतानि संस्कृतानि संधानी - कृतान्यस्थितानि यानि वंशजालिसम्बन्धीनि करीलानि तदा मांसमनयोः किलास्वादः समानो भवति । ततोऽत्वकारादावन्यतरस्मिन् जिह्वाग्रप्रदत्ते भवत्येवं किमिदं संभृतवंशकरीलमामिषं वेति । आदिशब्दाद् गुड: खंड वा मृद्वीका शुष्कराजादनं वा इत्यादिपरिग्रहः । स्पर्शनेंद्रियप्रभवस्येहादेः सर्पोत्पलनालादिवत्समान स्पर्शो विषयः सर्पोत्पलनालयोश्च तुल्यं स्पर्शत्वेनेहाप्रवृत्तिः सुगमैव । आदिशब्दात् स्त्रीपुरुषलेष्टपलादिवत्समानस्पर्श वस्तुपरिग्रह इति गाथार्थः । ६० अथ यदुक्तं सूत्रे से जहानामए केइ पुरिसे अव्वत्तं सुमिणं पासेज्जा इत्यादि तदनुसृत्य स्वप्ने मनसोप्यवग्रहादीन् दर्शयन्नाह ॥ एवं चिसिमणाइ सुमणसो सद्दाइसु विसयेसु । होंतिंदियवावारा भावेवि अवग्गहाईया | एवमेवोक्तानुसारेणेंद्रियव्यापाराभावेपि स्वप्नादिष्वादिशब्दाद्दत्तकपाटसांधकारो पवरकारादीनींद्रियव्यापाराभाववंति स्थानानि गृह्यते तेषु केवलस्यैव मनसो मन्यमानेषु शब्दादिविषयेष्ववग्रझदयों अवग्रहेहापायधारणा भवतीति स्वयमभ्युह्यास्तथाहि स्वप्नादौ वित्तोत्पेक्षामात्रेण श्रूयमाणे गीतादिशब्दे प्रथमं सामान्यमात्रोत्प्रेक्षायामवग्रहः । किमयं शब्दोऽशब्दो चेत्याद्युत्प्रेक्षामात्रेण श्रूयमाणे गीतादिशब्दे प्रथमं सामान्यमात्रोत्प्रेक्षायामवग्रहः । किमयं शब्दोऽशब्दो चेत्याद्युत्प्रेक्षायामीहा ॥ शब्दनिश्वये पुनरपायस्तदनंतरं तु धारणा देवतादिरूपे कर्पूरादिगंधे मोदकादिरसे । कामिनीकुचकलशादिस्पर्शे वोत्प्रेक्ष्यमाणे अवग्रहादयो मनसः केवलस्य भावनीया इति गाथार्थः ॥ ॥ मतिज्ञानमिदं द्रव्यादिभेदाच्चतुर्विधं यदाह भाष्यकृत् । तंपुणचउव्विहं नेयं भेयओ तेण जं तदुवउत्तो । आएसेणं सव्वं दव्वाइ चउव्विहं मुणइ तत्पुनराभिनिबोधिकज्ञानं चतुर्विधं चतुर्भेदं । नत्ववग्रहादिभेदेन भेदकथनं प्रागस्य कृतमेव किमिह पुनरपि भेदोपन्यासः । सत्यं ज्ञेयमेवेह द्रव्यादिभेदेन चतुर्भेदं ज्ञानस्य तु ज्ञेयभेदादेव भेदोत्राभिधीयते । सूत्रे तथैवोक्तत्वात्तच्चेदं सूत्रं । तं समासओ चउव्विहं पण्णत्तं दव्वओ खित्तओ कालओ भावओ । दव्वओ णं आभिणिबोहियनाणी आएसेणं सव्वदव्वाइं जाणइ न पास इत्यादि । ज्ञेयभेदादपि तत्कथं चतुर्विधमित्याह । जं दु वरती इत्यादि ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112