Book Title: Agam 44 Chulika 01 Nandi Sutra
Author(s): Chandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
५८
नंदीसूत्र-टीकायाः तदापाय एवासौ स्यानावग्रहो निश्चयस्यापायस्वरूपत्वात् । ततश्चार्थावग्रहेहाभाव एव स्यानचंत
दृष्टमिष्टं चेतिगाथार्थः ॥ अत्राह पर: ननु प्रथमसमय एव रूपादिव्यपोहेन शब्दोयमिति प्रत्ययो ऽर्थावग्रहत्वेनाभ्युपगम्यतां शब्दमात्रत्वेन सामान्यत्वादुत्तरकालं तु प्रायो माधुर्यादयः शंखशब्दधर्मा इह घटते न तु शार्ङ्गधाः खरकर्कशत्वादय इति विमर्शवुद्धिरीहा । तस्माच्छंखे एवायं शब्द इति तद्विशेषस्त्वपायोस्तु । तथा वंसतितेगं सद्देत्ति उग्गहिए इदं यथाश्रुतमेव व्याख्यायते । नो चे व णं जाणइ के वेस सद्दाईतओ ईहं पविसईत्यादि अपि सर्वम विरोधेन गच्छतीति । तदेतत्परोक्त सूरिः प्रत्यनुभाष्य दूषयति यथा ॥ जइ सद्दबुद्धिमत्तय मवग्गहा तव्विसेसणमवाओ । न णु सद्दो ना सद्दो नयरूवाई विसेसोयं । भो पर ! यदि शब्दः बुद्धिमानं शब्दोयमिति निश्चयज्ञानमपि भवतार्थावग्रहोऽभ्युपगम्यते तद्विशेषणं तु तस्य शब्दस्य विशेषणं विशेषः शांख एवायं शब्द इत्यादि विशेषज्ञानमित्यर्थः । अपायो मतिज्ञानतृतीयभेदोंऽगीक्रियते । हंत तहिं अवग्रहलक्षस्य तदाव्यभेदस्याभावप्रसंगः । प्रथमत एवावग्रहमतिक्रम्यापायाभ्युपगमात्कथं पुनः शब्दज्ञानमपाय इति चेदुच्यते । तस्यापि विशेषग्राहकत्वाद्विशेषज्ञानस्य च भवताप्यपायत्वेनाभ्युपगतत्वान्ननु शांख एवायं शब्द इत्यादिकमेव तदुत्तरकालभाविज्ञानं विशेषग्राहकं शब्दज्ञाने तु शब्दसामान्यस्यैव प्रतिभासनात्कथं विशेषप्रतिभासो येनापायप्रसंगः स्यादित्याह ॥ नणु इत्यादि नत्वित्पक्षमायां परामंत्रणे वा न तु शब्दोयं नाशब्द इति विशेषोयं विशेषप्रतिभास एवायमित्यर्थः ॥ कथं पुनर्ना शब्द इति निश्चीयत इत्याह । न च रूपादिरिति । च शब्दो हि शब्दार्थों आदिशब्दात् गंधरसस्पर्शपरिग्रहः । ततश्चेदमुक्त भवति । यस्मान्न रूपादिरयं । तेभ्यो व्यावृत्तत्वेन गृहीतत्वादतो ना शब्दोयमिति निश्चीयते । यदि तु रूपादिभ्यो व्यावृत्तिर्गृहीता न स्यात्तदा शब्दोयमिति निश्चयोपि न स्यादिति भावः । तस्माच्छब्दोयं ना शब्द इति विशेषः । प्रतिभास एवायं । तथा च सति अस्याप्यपायप्रसंगतोऽवग्रहाभावप्रसंग इति स्थितमिति गाथार्थः ॥ ॥ अथ परो अवग्रहापाययोविषयविभागे दर्शयन्नाह ॥ थेवमियं नावाओ संखाइ विसेसगं अवाउत्ति । तत्तिया वेक्खा नणुथोवमियं पि नावाओ । इदं शब्दबुद्धिमात्रकं शब्दमात्रस्तोकविशेषावसायित्वात्स्तोकं स्तोकविशेषग्राहकं । अतोपायो न भवति । किं त्ववग्रह एवायमिति भावः । कः पुनस्ता पाय इत्याह । संखा इत्यादि । शांखोयं शब्द इत्यादि विशेषणविशिष्टं यज्ज्ञानं तदपायो बृहद्विशेषावसायित्वादिति हृदयं । हंन यदि यदस्तोकं तन्नम्नापायस्तहिनिवृत्ता सांप्रतमपायज्ञानकथा। उत्तरोत्तरार्थविशेषग्रहणापेक्षया पूर्वपूर्वार्धविशेषाध्यवसायस्य स्तोकत्वादेतदेवाह । तव्वेयेत्यादि ।
__तस्य शांखशब्दस्य ये उत्तरोत्तरभेदा मंद्रमधुरत्वादयः । तरुणमध्यमवृद्धस्त्रीपुरुषसमुद्भव खादयश्च तदपेक्षया । तदपेक्षायां सत्यामिदमपि शांखोयं शब्द इति ज्ञानं ननु स्तोकं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112