Book Title: Agam 44 Chulika 01 Nandi Sutra
Author(s): Chandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
नदीसूत्र-टोकाया हणताउपधारणता लक्षणमेदद्वयस्थाभावः । ईहाथां मार्गणतेति । किमयं स्थाणुः पुरुषो प्रति वितर्के वल्लयुत्सर्पणकाकनिलयनादिधर्मदर्शनात्स्थाणुना भाव्यं नेतरेण । 'शिरःकण्डूयमवलमादि तदीयधर्मादर्शनादित्येवं व्यतिरेकधर्मनिराकरणपरोऽन्वयधर्मघटनप्रवृत्तचापायाभिमुख एवं बोध ईहा इत्येवमीहायां एषां धर्माणां यदान्वेषणं सा ‘मार्गणता ॥ ॥ सद्धर्मानुगत इति । सद्धर्मणि वस्तुनि असुगतः। सद्धर्मानुगतः ।। अपः ॥ अयः। सामस्त्येन परिच्छेदोऽपायः। मधुरस्निग्धत्वादिगुणत्वाच्छंखस्यैवाय शब्दो न शृङ्गस्येत्यादि यद्विशेषज्ञानं सोऽपायः । अपायन निश्चितेऽर्थे तदनंतरख्यावदद्यापि तदर्थोपयोगे सातत्येन वर्तते । न तु तस्मान्निवर्तते । तावतदर्थोपयोगादविच्युतिर्नाम धारणायाः प्रथममेदो भवति । यत्कर्मक्षयोपशमवशाज्जीवस्य कालांतरे इंद्रियव्यापारादिसामग्रीवशात्पुनरप्यथा यावद्वारितो । अर्थस्मृतरूपेणोन्मीलति सौ संस्काररूपा वासनानाम धारणाभेदः कालांतरे च वासनावशात्तदर्थस्येंद्रियैरुपलब्धस्याववातैरनुपलब्धस्यापि मनसि या स्मृतिराविर्भवति सा तृतीयस्तद्भेदः अत्र मतिदौर्बल्यादिकारणकलापावग्रहेहादीनां दुर्विज्ञेयत्वेपि सर्वज्ञमतप्रामाण्यादवितथत्वमेव भावनीयमित्यावेदयन्नाहं ॥ इहकेत्यादि । एकाधिकरणत्वात् न पुनर्विशत्येत्यादि । विंशतिदिनापेक्षया । यथाऽपांतराल आसन्मों यो सावागमनसमयः कालविशेषरूपस्तदिनभावी । अतिक्रान्त प्राचीनदिननिरपेक्षः पथिकस्य गृहप्रवेशकारणं । न तथा प्राकृते प्राचीनसमयरहितचरमासंख्येयसमय-प्रविष्टपुद्गलराशिरप्यर्थावग्रहकारणं किं त्वादित आरम्य प्रतिसमये प्रवेशेन निरंतरमसंरव्ये यसमय प्रविष्टाः पुद्गलाः शब्दविज्ञानजनकार्थावग्रहहेतवो भवंतीति भावः । स्फुटशब्दविज्ञानहेतवश्च चरमसमयप्रविष्टा एव । यद्यपि भवति । मेतरे तथापीतरे तत्साहायाद्यभावे न व्याप्रियते इत्योद्यतः । सर्वेषां सामान्येन ग्रहणमुच्यते ।। अथ केयं मल्लकदृष्टांतेन व्यंजनावग्रहप्ररूपणेत पृष्टेतां चक्रुमाह ॥ तद्यथेत्यादिना । मल्लयं पवाहेहिति । प्लावयिष्यति । व्यंजनं परितं भवति । तोयेन मल्लकमिव संबंधो वेति । द्रव्येंद्रिययोः संबंधः । यदा द्रव्यव्यंजनमिति शब्दादि विषयपरिणतपुद्गलसमूहरूपं । स्वविषयव्यक्ताविति स्वग्रहेकज्ञानजनने आवृतं भृतमिति वा सित मित्यर्थः । नाम जात्यादिकल्पनारहितमिति ॥ एतच्चताहे हुतिकरे इत्यस्य व्याख्यानं । अत्रार्थावग्रहात्पूर्वमिति अन्तर्मुहूर्त द्रव्यप्रवेशादिरूप इत्यर्थः । इदानीं से जहानामए केइ पुरिसे अव्वत्तसई सुणेज्जा इत्यादिकस्य वक्ष्यमाणसूत्रस्य व्याख्यानाय समवतारं कुर्वन् पातनात्रयं करोति । अत्राहेत्यादिना ॥ आद्येयं ॥ अथवा यदुक्तमित्यादिका द्वितीया ॥ अथवा सुप्तेत्यादिना तृतीयेति । अव्यक्तमित्यनिर्देश्यं । कोऽर्थः ॥ शब्दोयं रूपादिर्वा इत्यादिप्रकारेणं निर्देष्टुमशक्यमव्यक्तस्वरूपनामादीनि । आदिशब्दात् । जातिगुणक्रियाद्रव्यग्रहः । तस्यवेति । अर्थावग्रहस्य माहेति परो ब्रूते । संघद्धमितियुक्तमित्यर्थः । नैतदेवमित्यादिना । सूरिः प्रतिविधत्तेन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112