Book Title: Agam 44 Chulika 01 Nandi Sutra
Author(s): Chandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 66
________________ दुर्गपदव्याख्या . किमपीदमित्यव्यक्तज्ञानरूपार्थावग्रहादा-व्यक्ततरं ज्ञानं मात्रमित्यर्थः । किमपीदमित्यव्यक्तज्ञानंचार्थावग्रहः ॥ व्यंजनार्थयोरेवावग्रहणेन विषयद्वैविध्यादवग्रहस्य द्वैविध्यं भवति । सत्रापि प्राप्यकारिष्विद्रियेषु व्यंजनावग्रहादनंतरमेवार्थादवग्रहो भवति इति व्यंजनावग्रह आदौ निरूपितः नयनमनसोरित्यादि । विषयभूतं वस्त्वप्राप्यसंश्लेषद्वारेणानासाद्य करोति परिछिनत्ति चक्षुकर्तृविषयपरिच्छेदनित्यप्राप्यकारि तदुच्यते। अप्राप्यकारि लोचनं । ग्राह्यवस्तुना सह संवध्यते तत्परिच्छेदं कुर्यात्तदाग्न्यादिदर्शने स्पर्शनस्येव दाहाद्युपघातः स्यात् । कोमलतूल्याधवलोकनेत्वनुग्रहोभवेत् न चैव तस्मादप्राप्यकारि लोचनं । अथ प्रागुक्तो असिद्धो हेतुः प्राह्यवस्तुकृतानुग्रहोपघातदर्शनात्तथाहि जलघृतनीलवनस्पतीदुमंडलाधवलोकने नयनस्य परमास्वास लक्षणाऽनुग्रहः समीक्ष्यते । सूरशितभित्यादिदर्शने तु जलविगलनादिरूप उपघातः संदश्यत इति ॥ मत्रोच्यते ॥ नहि वयमेतद् ब्रूमो यदुतचक्षुषः कुतोपि वस्तुनः सकाशात् कदाचित सर्वथैवानुग्रहोपघातौ न भवतः । किं तु भवत एव । रविकरान् चिरमवलोकयतो द्रष्टुः चक्षुः स्पर्शनेंद्रियमिव दह्येत । शीतलं च शीतरश्मिजलघृतादिकं वस्तु चिरमवलोकयतोऽनुग्रह मन्येत चक्षुरित्येतावता। अप्राप्यकारि चक्षुर्वादिनामस्माकं न कश्चिदोषो द्रष्टस्य बाधितुमशक्यत्वात् । केवलमिदमेवास्माभिर्नियम्यते । यदुत विषयदेशं गत्वा आदित्यमंडलादिसमाक्रातदेशं समाश्लिष्य चक्षुः कर्तृ न रूपं परिछिनत्ति । नाप्यन्यतश्चक्षुर्देशमागतं रूपमक्षिस्थमंजनतेजोमलशिलाकादिकस्वयं चक्षुः पश्यति किंत्वप्राप्तमेव योग्यदेशस्थं विषयं तत्पश्यतीति । परिच्छेदानंतरं तु पश्चात्प्राप्तेन केनाप्युपघातके नानुग्राहकेण वा मूर्तिमता द्रव्येण चक्षष उपघातानुग्रहौ न निषिध्येते विषशर्करादिभक्षणे मूर्छा [स्वा] स्थ्यादय इव मनसः । परःप्राह । नयनान्नायना रश्मयो निर्गत्य प्राप्य च रविबिंबरश्मय इव वस्तु प्रकाशयतीति सूक्ष्मत्वेन तैजसत्वेन च तेषां वहन्यादिभिर्दाहादयो न भवति । रविरश्मिषु तथा दर्शनादिति नयनस्य प्राप्यकारिताऽभिधीयते । तदयुक्तं महाज्वालादौ प्रतिस्खलनदर्शनात् आदिग्रहणात् । तेषां प्रत्यक्षादिप्रमाणाग्राह्यत्वेन श्रद्धातुमशक्यत्वात्प्रमाणाग्राह्यस्याप्यस्तित्वकल्पने अतिप्रसंगादिति ग्राह्यं । तथाऽचेतननायनरश्मीनां वस्तुपरिच्छेदाभ्युपगमेन ख.दंतभालतलादि गतशरीरश्मीनामपि स्पर्शविषयवस्तुपरिच्छेदप्रसंगाच्चेति । तस्सणं इमे इत्यादि । एकार्थिकानि परमार्थत एकार्थ विषयाणि नानाघोषानि । पृथक भिन्नोदात्तादिस्वराणि । नानाव्यंजनानि पृथग भिन्नककाराद्यक्षराणि । नामधेयानि । पर्यायध्वनयः । यथावग्रहस्य पंच नामधेयानि । ऐवमीहायाः षड्भेदायास्तथा अपायस्य धारणायाश्च पंच नामधेयानि क्रमेण दर्शयिष्यति । पंचहि वि इंदिएहिं मणसा अत्थोग्गहो मुणेयन्यो । चक्खिदियमणरहिय । वंजणमीहाइयं छह ॥ मंद्र इति गंभीरः । तारउच्चस्तरध्वनिमान् ॥ यत्रेति नयनमनसोर्विषय व्यंजनावग्रहो नास्ति । तत्र चतुर्विधव्यंजनावग्रहविषये भवन Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112