Book Title: Agam 44 Chulika 01 Nandi Sutra
Author(s): Chandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
दुर्गपदव्याख्या
५०
-
स्तोकविशेषग्राहकमेवेति नापायः स्यादेवमुत्तरोत्तरविशेषग्राहिणामपि ज्ञानानां तदुत्तरोत्तरभेदापेक्षया स्तोकत्वादपायत्वात् अपायत्वाभावो भावनीय इति गाथार्थः । तदेवं से जहानामए केइ पुरिसे अव्वत्तं सई सुणेजेत्यादिसूत्रानुरोधेन शब्दमात्रित्यावग्रहादयो भाविताः । अथ सूत्रकारेणैव यदुक्तं । एवं एएणं अभिलावेणं अवत्तं रूवं रसं गंधं फासमित्यादि ॥ तच्चेतसि निघाय भाष्यकारोप्यतिदेशमाह ॥
सो सेसु विरूवाइ सुविसएसु हुँति सूवलरक्खाइं । पायंपच्चासन्नत्तणेण मीहाइवच्छूणि । यथाशब्दे एवं शेषेष्वपि रूपादिषु विषयेषु साक्षादनुक्तान्यपि सूपलक्ष्याणि कथितानुसारप्रसरत्प्रज्ञानां चतुरचेतसां सुज्ञेयानि भवंति । कानीत्याह ।
ईहादीन्याभिनिबोधिकज्ञानभेदवस्तूनि । केन सूपलक्ष्याणि इत्याह ॥
प्रायः प्रत्यासन्नत्वेन । चक्षुरादिना गृह्यमाणस्य स्थाएवादेस्तत्रागृह्यमाणेण पुरुषादिना सह प्रायो बहुभिर्धर्मर्यत्प्रत्यासन्नत्वं या प्रत्यासत्तिः । सादृश्यमिति यावत् तेनेहादीनि ज्ञेयानि । न पुनरत्यंतवलक्षण्यस्थाएवादेरुष्ट्रादिना सहेत्यर्थः । इदमुक्त भवत्यवग्रहे तावत्सामान्यमात्रगाहकत्वात् द्वितीयवस्त्वपेक्षापि न विद्यते । ईहा पुनरुभयवस्त्ववलंबिनी तत्र पुरो दृश्यमानस्य वस्तुनो यत्प्रतिपक्षभूतं वस्तु ततायो बहुभिर्वमः प्रत्यासन्नं ग्राह्य न पुनरत्यंतविलक्षणं । पुरतो हि मंदमंदप्रकाशे दूराद् दृश्यमाने स्थाण्वादौ किमयं स्थाणुः पुरुषो वा इत्येवमेवेहाप्रवर्तते । ऊर्द्ध स्थानारोहपरिणाहतुल्यतादिभिः प्रायो बहुभिर्धर्मः पुरुषस्य स्थाणुप्रत्यासन्नत्वादिति । किमयं स्थाणुरुष्ट्रो वा इत्येवं तु न प्रवर्तते। उष्ट्रस्य स्थाण्वपेक्षया प्रायोऽत्यंतविलक्षणत्वादतण्व एव सामान्यमात्रग्राही अवग्रहोऽत्रादौ न कृतः किं त्वीहादीनीत्येवमेवोक्तं उभयवस्ववलंबित्वेनेहा एव पायं पच्चासन्नत्तणेणेति विशेषणस्य सफलत्वादपायस्यापि स्थाणुरेवायं न पुरुष इत्यादिरूपेण प्रवृत्तेः किंचिद्विशेषणस्य सफलत्वादादिशब्दोप्यविरुद्ध इति गाथार्थः ।।
इह किं शब्दोऽशब्दो वेति श्रोत्रंद्रियस्य प्रत्यासन्नवस्तूनि सूपलक्ष्याणीत्युक्त। कथंभूतानि संति पुनस्तानि सूपलक्ष्याणीत्याह ॥
समानः समानधर्मा रूपरसादिविषयो येषामीहादीनां तानि समानरूपादिविषयाणीति पूर्वगाथायां सम्बन्धः । कः पुनरमीषां समानधर्मा रूपादिविषय इत्याह ॥
स्थाणुपुरुषादिवदिति पर्यन्ते निर्दिष्टो विषयोत्र दर्शनाभिद्योतको वनच्छब्दः सर्वत्र प्रयोज्यते तश्चक्षुरिंद्रियप्रभवस्येहादेः स्थाणुपुरुषादिवत्समानधर्मा रूपविषयो द्रष्टव्यः । आदिशब्दात्किमियं मुक्ति का रजतखंडं वा मृगतृष्णिका पयःपूरो वा रज्जुविषधरो वेत्यादि परिग्रहघ्राणेंद्रियप्रभवस्येहादेः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112