Book Title: Agam 44 Chulika 01 Nandi Sutra
Author(s): Chandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
नंदीer - टीकाया सूत्रे कथमेकैवोह संज्ञात्रोच्यते । सत्यं वल्ल्यादिष्वियं व्यक्तैवोपलभ्यते । किंचिदिति शेषोपलक्षणमेषेति । अत्राहेत्यादि । अयमर्थः । अविशुद्धत्वात् । प्रथमं हेतुबादसंज्ञा । ततो विशुद्धत्वात्कालिकसंज्ञा । ततोपि विशुद्धतरत्वात् दृष्टिवादसंज्ञेत्येवं यथोत्तरविशुद्धममुं क्रमं मुक्त्वा किं कालिकसंज्ञोपदेश आदौ निर्दिष्टः । उच्यते । आगमे योयं संज्ञीति व्यवहारः । स सर्वोपि प्रायः कालिकोपदेशेनैव क्रियते । तेनादौ सः एव कालिकोपदेशः कृतः । तथाहि यः स्मरणचितादिदीर्घकालिक ज्ञानसहितः समनस्क पंचेंद्रियः सः संज्ञी व्यवहियते । ततो असंश्यपि पर्युदासाश्रयणादमनस्कः सन्मूर्च्छजपंचेंद्रिय एवागमे प्रायो व्यवहियते ॥ ॥
बहवश्च कैश्चिदिष्यते इति । अनादिसंशुद्धा इति बहुवचनं । इंगनेति संज्ञा । तुल्यतामदक्याति अर्हद्भिः सह तेषां तुल्यतानिषेधायाहेत्यर्थः । ' नातस्वमसि नो महानिति । अत एतेभ्यो देवागमादिकारणेभ्यो नोऽस्माकं त्वं पूज्योसि इति न यत एते हेतवः सुगतादिष्वपि मायाविषु तुल्या न निहाणेत्यादि । ये भग्ना अतिक्रांतास्तेन निधानगताः संति । नवा नागतेषु पुंजः समास्ते येपि वार्त्तमानिकास्तेपि न निर्वृत्ताः स्वस्थास्तिष्ठति किं तर्हि आरा शर्षपा इव भावाः । यथा ह्यारा शर्षपाणामुपरि क्षिप्यमाणानां नावस्थितिरेवं भावानामपि । किं तु स्वकारणादुत्पयेते विनश्यति चेति तत्त्वं । न पुनरतीतो नागतो वा तेषां कश्चित्सद्भावोस्ति । नाशानुत्पत्या । सम्यग्द्रष्टेरई प्रणीत शास्त्र मितरद्वा श्रुतं यथा स्वरूपावगमनात्सम्यक् श्रुतं तदेव मिध्याद्रष्टेर्मिध्याश्रुतमन्यथावगमात् ॥ ॥
सत्यादथवेति संप्रदायगम्यं संविधानकं अथ कियता श्रुतेन सम्यग्द्रष्टिः स्यात् कियता मिथ्यादृष्टिः यद्वा कियत्सम्यक्तमेव भवति । कियन्च मिथ्याश्रुतं शेषस्य च मत्यादि ज्ञानचतुष्टयस्य मध्ये मिध्यात्वोदयात्कस्य विपर्यासो भवति कस्य च नेत्याशंक्योच्यते । चोदसदस्य अभिण्णा नियमासम्मं तु सेसए भयणा । मइओहि विज्जासेविहोइ मिच्छं न उण सेसे । चतुर्दशपूर्वेभ्यः समारम्य यावत्संपूर्ण दशपूर्वाणि तावन्नियमात्सम्यक् श्रुतमेव भवति । न मिथ्याश्रुतं । एतावच्छ्रुतसद्भावे सम्यगूद्रष्टिरिति भावः । सेसए भयणत्ति । शेष - भिन्नदशपूर्वादिके सामायिकपर्यंते श्रते भजना विकल्पना । एतच्छ्रुतसद्भावे कोपि सम्यग्द्रष्टिः कश्चितु मिथ्यात्वोदयाद्विपर्यस्तो मिध्यादष्टिरपि भवति । ततश्चैतच्छ्रुतं सम्यक्त्वपरिग्रहात्सम्यक् श्रुतं मिथ्यात्वोदयान् मिध्याश्रुतमपि स्यादिति भावः । न केवलं चतुर्दशदशपूर्वसप्तर्णश्रुतादन्यत्र मिथ्यात्वोदयः । किं तु मत्यवधिविपर्यासे मिध्यात्वं मिध्यात्वोदयो भवति । न पुनः शेषे मनःपर्याय केवलद्वये । इदमुक्तः भवति । मिथ्यात्बोदयान्मतिज्ञानं विपर्यस्तं सन्मध्यज्ञानं भवति । अवधिरपि तदुदयाद्विपर्यासमापन्नो विभंगव्यपदेशं लभते । मनःपर्याय केवलज्ञाने
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112