Book Title: Agam 44 Chulika 01 Nandi Sutra
Author(s): Chandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
दुर्गपदव्याख्या
तुशब्दबुध्येति । शब्दोयमित्यध्यवसायेनेति न तस्यैवेति अर्थावग्रहं विनव तस्यैव शब्दमात्रस्यापायप्रसंगात्तस्माद्वयं जनापूरणे जातेऽव्यक्तमनिर्देशस्वरूपं शब्दाद्युल्लेखरहितमर्थमात्रमवगृह्णाति । अत । एवाह भाष्यकार: अव्वत्तेत्यादि ॥ सामण्णमणिद्देसं सरूवनामाइ कप्पणारहियं । जइ एवं जंतेणं. महिए सद्देति तं किहणु ॥ अल्वत्तमनिद्देशमिति । वृत्तौ पाठो दृश्यते । तत्राव्वत्तमिति विवृणोति ॥ सामन्नमिति । गाह्य वस्तुनः सामान्यविशेषात्मकत्वे सत्यप्यर्थावग्रहेण सामान्यरूपमेवार्थं गृह्णाति । न विशेषरूपं । अर्थावग्रहस्यैकसामयिकत्वात् समयेन च विशेषग्रहणयोगादिति । सामान्यार्थश्च कश्चित् ग्रामनगरवनसेनादिशब्देन निर्देश्योपि भवति । तद्वयच्छेदार्थमाह-अनिद्देश्य केनापिशब्देनानभिलप्यं ॥ कुतः ॥ पुनरेतदित्याह ॥ यतः स्वरूपनामादिकल्पनारहितं ॥ आदिशब्दाज्जातिक्रियागुणद्रव्यपरिग्रहः । तत्र रूपरसाद्यर्थानां य आत्मीयश्चक्षुरादींद्रियगम्यः प्रतिनियतः स्वभावः । तत्स्वरूपं रूपरसादिकस्तु तदभिधायको ध्वनि नमि । रूपत्वरसत्वादिका नु जातिः प्रीतिकरमिदं रूपं । पुष्टिकरोयं रसः इत्यादिकस्तु शब्दः क्रिया प्रधानत्वाक्रिया। कृष्णनीलादिकस्तु गुणः । पृथिव्यपादिकं पुनद्रव्यं एषां स्वरूपनाम जात्यादीनां कल्पना अन्तर्जल्पारूषितज्ञानरूपा तया रूषितमेवार्थमर्थावग्रहेण गृह्णाति यतो जीवस्तस्मादनिर्देश्योयमर्थः प्रोक्तः । तत्कल्पनारहितत्वेन स्वरूपनामजात्यादिप्रकारेण केनापि निर्देष्टुमशक्यत्वादिति एवमुक्ते सति परः प्राह ॥ जइएवमित्यादि । यदि स्वरूपनामादिकल्पनारहितोर्थोर्थावग्रहस्य विषय इत्येवं व्याख्यायते भवद्भिस्तहिजत्ति यन्नंद्यध्ययनसूत्रे प्रोक्त किमित्याह तेणं गहिए सद्देत्ति । उपलक्षणत्वादित्थं संपूण्णं द्रष्टव्यं । से जहानामए केइ पुरिसे अव्वत्तं सदं सुणेज्जा । तेणं सद्देत्तिउग्गहिए न नूणं जाणइ केवेससद्दाइत्ति । तं किहुणत्ति । तदेतत्कथमतिरोधेन नीयते युष्मद्व्याख्यानेन सह विरुध्यत एवेदमित्यर्थः । तथाह्यस्मिन्नंदिसूत्रेऽयमर्थः प्रतीयते ॥ यथानेन प्रतिपदा
विग्रहेण शब्दोवगृहीत इति भवंतस्तु शब्दाद्युल्लेखरहितं सर्वथा इत्थं प्रतिपादयंति तत्कथं न विरोध इति भावः ॥ इति गाथार्थः । अत्रोत्तरमाह ॥
सद्देत्ति भणइवत्ता । तम्मत्तं वाससद्दबुद्धीए । जइ होज्ज सद्दबुद्धीतो अवाओवेव सो होज्जा शब्दस्तेनावगृहीत इति यदुक्त । तत्र शब्द इति वक्ता । प्रज्ञापकः सूत्रकारो वा भणति प्रतिपादयति । अथवा तन्मात्रं शब्दमात्रं रूपरसादि विशेषव्यावृत्त्या अनवधारितत्वच्छब्दातया अनिश्चितं । गृह्णातीत्येतावता । वृद्धान शब्दस्तेना इत्युच्यते । न पुनः शब्दबुद्धया। शब्दबुद्धया शब्दोयमित्यध्यवसायेन तच्छब्दवस्तुनो ताव गृहीतं शब्दोल्लेखस्यांतमौ हूर्तिकत्वादवग्रहस्यत्वेकसामयिकत्वादसंभव एवायमिति भावः । यदि पुनस्तत्र शब्दबुद्धिः स्यात् । तहि को दोषः स्यादित्याशंक्याह सूत्रकारः ॥ स्वयमेव दूषणांतरमाह । जइ इत्यादि । यदि पुनरर्थावग्रहे शब्दबुद्धिः शब्दनिश्चयः स्यात् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112