Book Title: Agam 44 Chulika 01 Nandi Sutra
Author(s): Chandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
दुर्गपदव्याख्या
३७
श्रु ग्रंथ संबंधिनो वा शब्दस्य रूपस्य व्यवहारकालेऽननुसरणात् श्रुतज्ञानं तु साभिलापमेव । श्रतानुसार्येव च संकेत कालप्रवृत्तस्य श्रुतग्रंथसंबन्धिनो वा शब्दस्य रूपस्य श्रुतस्य व्यवहारकालेऽवश्य मनुसरणादिति स्थितं । इत्थं लक्षणभेदाद्भेदोभिहितः । संप्रतिहेतुफलभावादनयोर्भेदं दर्शयति । मइपुव्वं सुयं न मइ सुयपुब्विया इत्यनेन । यदि ह्येकत्वं मतिश्रुतयोर्भवेत्तदा एवं भूतो नियमेन पूर्वपश्चाद्भावो घटतत्स्वरूपयोरिव न स्यादस्ति चायं ततो भेद इति भावः । पृ धातु । पालन पूरणयोरर्थे पच्यते ॥ तस्य च पिपर्तीति पूर्वमितिनिपात्यते । पूर्वशब्दश्चायमिह कारणपर्यायो द्रष्टव्यः । कार्यापूर्वमेव कारणस्य भावात् । सम्यग्ज्ञानपूर्विका सर्वपुरुषार्थसिद्धिरित्यादौ तथा दर्शनात् । ततश्च - मतिपूर्वं श्रुतमिति कोर्थः । श्रुतज्ञानं कार्यं मतिस्तु तत्कारणं कार्यकारणयोश्च मृत्पिडघटयोवि कथंचि - द्वेदः प्रतीत एव । किमिति पुनर्मतिः पूर्वं कारणमस्य श्रुतस्येत्याह ॥ तथा वेदमित्यादि । अनुप्रेक्ष्यादिकाभ्याम् श्रुतपर्यायवर्द्धनेन मत्यैव तज्ञानं पूर्यते पोष्यते । पुष्टि नीयत इत्यर्थः । तथा मत्यैवान्यतस्तत्प्राप्यते गृह्यतेऽन्यस्मै दीयते वा । न मतिमन्तरेणेत्यर्थः । तथा गृहीतं सदेतत्परावर्तनचितनद्वारेण मत्येव पाल्यते स्थिरीक्रियतेऽन्यथा मध्यभावे तद्गृहीतमपि प्रणस्येदेवेत्यर्थः । श्रुतज्ञानस्यैते पूरणप्रापणपालनादयो अर्था विशिष्टा म्यूह धारणादीनंतरेण कर्तुं न शकचंते अभ्युहादयश्च मतिज्ञानमेवेति सर्वथा श्रुतस्य मतिरेव कारणं । श्रुतं तु कार्ये ॥ इति कारणकार्य रूपत्वान्मतिश्रुतयोर्भेदः ॥ ॥ भावश्रुतान्मतिर्नास्तीति भावश्रुतपूर्विका मतिन भवतीत्यर्थः ॥ द्रव्यश्रुतप्रभवा तु भवतु को दोषः । यद्वेति भावश्रुतान्मतिर्नास्ति । कार्यतयैव निषिध्यते न पुनः क्रमेणेति क्रमशस्तु मतिर्नास्तीत्येवं न । किंतु क्रमशो मतिरस्त्येव क्रमेण जायमानां मर्ति को निवारयति थाह ॥ मया श्रुतोपयोगो जन्यते । तदपरमे तु निजकारणात्प्रवृत्ता पुनरपि मतिरेवावतिष्ठते । पुनस्तथैव श्रुत ं । तथैव च मतिरित्येवं क्रमेण भवंती मतिरिष्यत एव । यस्मात् तोपयोगात् श्रुतस्य मताववस्थितिर्भवति । श्रुतोपयोगोपरमे क्रमयोतं मत्यवस्थानं न निवार्यते । अन्यथा आमरणांत केवलश्रुतमात्रोपयोगप्रसंगात् ।। अथ श्रुतस्य परो मतिपूर्वतां विघटयन्नाह । नाणाण णोणाणि य समकालाई जओमइसुयाई । तो न सुयं मइपुव्वं मइनाणे वा सुयंनाणं । इह मतिश्रुते वक्ष्यमाणयुक्तया द्विविधे सम्यग्दृष्टेर्ज्ञानस्वरूपे मिथ्याद्रष्टेस्त्वज्ञानस्वभावे । तत्र ज्ञाने अज्ञाने वैते प्रत्येकं समकालमेव भवन्तः । तत्क्षयोपशमला भस्यागमे युगपदेव निर्देशाद्यतश्चैते ज्ञाने अज्ञाने च मतिंश्रुते पृथक् समकाले भवतः । ततो न श्रुतं मतिपूर्वं युज्यते । न हि सममेवोत्पन्नयोः सव्येतरगोविषाणयोरिव पूर्वपश्चाद्भावः संगच्छते । अथोत्सूत्रोप्य सदाग्रहवशात्स पूर्वपश्चाद्भावो नोत्पद्यत इत्याह । मइनाणे वा इत्यादि । इदमुक्तं भवति । मतिज्ञाने समुत्पन्ने तत्समकालं च श्रुतज्ञानेऽनभ्युपगम्यमाने श्रुतात् ज्ञानं जीवस्य प्रसज्यते । श्रुतज्ञानानुत्पादेऽद्यापि तदनिवृत्तेः न च ज्ञानाज्ञानयोः समकालमवस्थितिरागमे क्वचिदप्यनुमन्यते विरोधात् । ज्ञानस्य सम्यग्द्रष्टिभावित्वादिति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112