Book Title: Agam 44 Chulika 01 Nandi Sutra
Author(s): Chandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 51
________________ नन्दोसूत्र-टोकायाः लाभस्यापि श्रोत्रंद्रियोपलब्धिरूपत्वात् । सहि श्रुतानुसारिसाभिलापज्ञानरूपो अत्राधिक्रियते । श्रोत्रंदियोपलब्धिरपि भूतैः च श्रुतमुक्ता । ततश्च सामिलापविज्ञानं शेषंद्रियद्वारेणाप्युपपन्नयोग्यतया श्रोत्रंद्रियोपलब्धिरेव मंतव्यं । अभिलापस्य सर्वथापि श्रोत्रंद्रियग्रहणयोग्यत्वात् इति । अज्ञानस्य सर्वेद्रियनिमित्तता सिद्धा । तथा सेसयं तु मइनाणमिति वचनात्तुशब्दसमुच्चयाच्च मतिज्ञानस्यापि सर्वेद्रियकारणता प्रतिष्ठिता । भवद्भिस्त्विंद्रियविभागान्मतिश्रतयोर्भेदः प्रतिपादयितुं मारब्धः । स चैवं न सिध्यति । द्वयोरपि सर्वेद्रियनिमित्ततायास्तुल्यत्व प्रतिपादनात् इति ॥ अत्रोच्यते । साधूक्तं भवता । किंतु यद्यपि शेषंद्रियद्वारयोतत्त्वात् तदक्षरलाभः । शेषंद्रियोपलब्धिरुच्यते तथाप्यभिलापात्मकत्वादसौ श्रोत्रंद्रियग्रहणयोग्य एव । ततश्च तत्त्वतः । श्रोत्रंद्रियोपलब्धिरेवायं । तथा च सति परमार्थतः सावै श्रोत्रंद्रियविषयमेव श्रुतज्ञानं मतिज्ञानं तु तद्विषयं शेषंद्रियविषयं च सिद्धं भवत्यत इत्थमिंद्रियविभागान्मतिश्रुतयोर्भेदो न विहन्यत इत्यलं विस्तरेणेति पूर्वगतगाथासंक्षेपार्थः । आवरणभेदात्त्विति । मतिज्ञानावरणश्रुतज्ञानावरणलक्षणावरणभेदात् तदाचार्यस्यापि भेदः मनु यथा मतिश्रुताभ्यां सम्यग्द्रष्टिघंटादिकं जानीते व्यवहरति च तथा मिथ्याद्रष्टिरपि तत्किमिति तस्य सत्कं सर्वमप्यज्ञानमुच्यते इत्याशंक्याह । सदसदविसेसणाओ भवहेऊ जदित्थिओउवलंभाओ नाणफलाभावायो- 'मिच्छदिहिस्स अन्नाणं । सव्वासन्य सदसतीतयोरविशेषणमतिशेषः । तस्माद्धेतोमिथ्याद्रष्टेः सम्बन्धि व्यवहारमात्रेण ज्ञानमपि निश्चयतो अत्र ज्ञानमुच्यते ॥ सतोहि असत्त्वेनासद्विशेष्यतेऽसतोपि च सत्त्वेन सद्भिद्यते । मिथ्याद्रष्टिश्च घटे सत्त्वप्रमेयत्वमूर्तत्वादीन् स्तंभरंभांभोरुहादिव्यावृत्तादींश्च पटादिधर्मान सतोप्यसत्वे न प्रतिपद्यते सर्वप्रकारैर्घट एवायमित्य वधारणादनेन ह्यवधारणेन संतोपि सत्त्वप्रमेयत्वादयः पटादिधर्मा न संतीति प्रतिपाद्यते । अन्यथा सत्वप्रमेयत्वादि सामान्यधर्मद्वारेण घटे पटादीनामपि सद्भावात् सर्वथा घटएवायमित्यवधारणानुपपत्तेः । कथंचिद्धट एवायमित्यवधारणेत्वनेकान्तवादाभ्युपगमेन सम्यग्द्रष्टित्वप्रसंगात्तथा पटपुटनटसकटादिरूपं घटेऽसदपि सत्त्वेनायमभ्युपगच्छति । सर्वै :प्रकारैः घटोऽस्त्येवेत्यवधारणात्स्यादस्त्येवघट इत्यवधारणे तु स्याद्वादाश्रयणात् सम्यग्दष्टित्वप्राप्तेस्तस्मात्सदसतोर्विशेषाभावादुन्मत्तको सावमिथ्यादृष्टेबोधोऽज्ञानं । तथाविपर्यस्तत्वादेव भवहेतुत्वात्तद्वोधोऽज्ञानं । तथा पशुवधतिलादिदहनजलावगाहनादिषु मोक्षहेतुत्वबुद्धेर्दयाप्रशमबह्मचर्याकिंचन्यादिषु तु मोक्षकारणेषु भवहेतुत्वाध्यवसायतो यदच्छोपलंभात्तस्याज्ञानं तथा विरत्यभावेन ज्ञानफलाभावान्मिथ्यादृष्टेरज्ञानमितिगाथार्थः । पुविसुय परिकम्मियं मइस्सजं संपयं सुयाईय ननिस्मियमियरंपुण अणिस्सियं मइचउक्कतं । तत्रापि प्रायो Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112