Book Title: Agam 44 Chulika 01 Nandi Sutra
Author(s): Chandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
दुर्गपदव्याख्या वैनयिकीवर्जद्रष्टव्यं । तस्यां श्रुतनिश्रितत्वस्यापि भावात् । मतिज्ञानमेवाधिकृत्य प्रश्नसूत्रमाहेति वदन् सूत्रे से किं तं आभिणिबोहियनाणमितिपाठो । शुद्धइत्यवेष्टे । किं तु से किं तं मइनाणमित्यय भवति आहेदमपीत्यादि । कथं पुनरत्रौत्पत्तिक्यादिबुद्धिचतुष्टयेवग्रहादयः संभवन्ति । तत्र यथा ते भवंति । तथादर्श्यते । किहपडिकुकुडहीणो । क्षुब्भेबिंबेणवग्गहोइहा । किं सलिलिद्धन वाउदप्पणसंकंतबिंबंति । इह किलागमे रेभेह सिलमिट कुकुडतिल वालुयहत्थि अयडवणसंडो । पायस अइयापत्ते .. खाडहिलापं च पियरोयेत्यादिनाऔत्पत्तिक्यादिबुद्धीनां बहून्युदाहरणान्युक्तानि । तन्मध्यान्छेषोपरक्षणार्थ कुक्कुटोदाहरणमाश्रित्योत्पत्तिक्यां बुद्धाववग्रहादयो भाव्यते । राज्ञा नटकुमारकस्य भरतस्य किल बुद्धिपरीक्षणार्थमादिष्टं । यदुतायंमदीयःकुक्कुटो द्वितीय कुक्कुटमंतरेणैकक एव योधनीयः । ततस्तेन जिज्ञासितं मनसि । कथमयं कुक्कुटहीनः प्रतिपक्षभूतद्वितीयकुक्कुटवर्जितो युध्येत । एतच्च जिज्ञासमानस्य तस्य झगित्येव स्फुरितं चेतसि । किमित्याह ॥ बिबेनेति । आत्मीयेन प्रतिबिंबितेन पुरो वीक्षितेन दपिध्यातत्वादयं युध्यत इत्यदः गृहीतमित्यर्थः एतच्च किमित्याह ।।
अवग्रहसामान्येनैव बिंबमात्रावग्रहणादवग्रहो मतिप्रथमभेद इत्यर्थः । ईहा तर्हि केन्याह ॥ इहा कि सुसिलिद्धमिति । किं पुनस्तत्प्रतिबिमस्ययोधनाय सुश्लिष्टं । सुष्टु युज्यमानकं भवेत् । किं तडाग एव पुरादिगतमहोस्विदर्पणगतमित्यादिबिंबविशेषान्वेषणमीहेत्यर्थः । अपायमुपदर्शयति। अथवा ओ दप्पणसंकंतबिंबंति कल्लोलादिभिः प्रतिक्षणमपनीयमानत्वादपटत्वाज्जलादिगतबिंबमिह न युक्तं । ततः स्थिरत्वेन स्पष्टादित्वेन च वरणाद्याताडिविषयत्वाद्दर्पणसंक्रांतमेव च तदत्र युज्यत इत्येवं विशेषनिश्चयोऽपाय इत्यर्थः ॥ एवमन्येष्वपि बुद्ध्यदाहरणेषु अवग्रहादयो भावनीयाः तस्माद्बुद्धिचतुष्टयेप्येषां सद्भावात् श्रुतनिश्रितमिदमपीति पराशयोऽत्रापि श्रुतनिश्रितानामवग्रहादीनां प्रदर्शितरीत्यासंभवादिति । औत्पत्तिकी नाम । प्रातिभमिति हृदयविनयिक्यां भरनिच्छरणमिति अतिगुरुकार्यस्य निस्तारणे पारप्रापणे या समर्था उभयलोगफलवतीति । तत्रेह लोके सत्कारद्रव्यादिलाभः । परलोके स्वर्गमोक्षादि प्राप्तिरिति । भरहसिलेत्यादि द्वारगाथा । अस्याः सप्तदशोदाहरणानि । तद्यथा । भरहसिलत्ति । भरतशिला १ पणियत्ति । पणितं २ वृक्ष ३ खड्डुगत्ति ४ । मुद्रारत्नं ४ पडसरडकायउच्चारइतिपटः ५ सरडः ६ काकाः ७ उच्चारः ८ गयघयणगोलखंभे इति । गज्जः ९ घयणत्तिशंभे इतिगज ९ घयणत्तिभंडः १० गोलः ११ स्तंभः १२ खुइमग्गथिएइपुत्तेइति । क्षुल्लकः १३ मार्गः १४ स्त्री १५ द्वौ पतो १६ पुत्र १७ इत्येतानि सप्तदशानि पदानि तत्र ज्ञातसूचामात्रफलानि इति ।। न सूक्ष्मेक्षिका कार्या तत्राद्यज्ञानस्य संग्रहगाथा ॥ भरहसिलेत्यादि भरतो नटस्तवृत्तांतगता
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112