Book Title: Agam 44 Chulika 01 Nandi Sutra
Author(s): Chandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
नन्दोसूत्र - टोकायाः
एतदुक्तमित्यादिना । इंद्रियाणि च मनश्च तानि निमित्तं यस्य तत्तथा । इन्द्रियमनोद्वारेण यद्विज्ञानमुपजायते । तत् श्रुतं श्रुतज्ञानमित्यर्थः । इन्द्रियमनोनिमित्तं च मतिज्ञानमपि भवत्यतस्तद्वयवच्छेदार्थमाह ॥
३६
श्रुतथानुसारिणति । श्रूयते इति श्रुतशब्द उच्यते । स च संकेतगोचरपरोपदेशरूपः । श्रुतग्रंथात्मकश्चेह गृह्यते । तदनुसारेण यदुपजायते तच्छ्रुतं ज्ञानं नान्यदेतदुक्तं भवति ।
संकेतकालप्रवृत्तं श्रुतप्रथसंबंधिनं वा घटादिशब्दमनुसृत्य वाध्यवाचकभावेन स योज्य घढोघटइत्याद्यन्तर्जल्पाकारमतः शाब्दाल्लेखान्वितमिंद्रियादिनिमित्तं यत्ज्ञानमुदेति तत्तज्ञानमित्यर्थः । तदुक्तं ॥
इंदियमणोनिमित्तं जं विन्नाणं सुयानुसारेण । निययच्छति समत्थं तं भावसुयमह सेसं । सुगमा । नवरमिंद्रियादिनिमित्तं यत्ज्ञानमुदेति तत्श्रुतज्ञानं । तच्च कथंभूतं निजकार्थोक्तिसमर्थ । अभिलाप्यवस्तुविषयमित्यर्थः । स्वरूपविशेषणमेतत् । शब्दानुसारिणो ज्ञानस्य निज. कार्योक्तिसामर्थ्या अव्यभिचारात् । अत्राह कश्चित् - ननु यदि शब्दोल्लेखसहितं श्रुतज्ञानमिष्यते । शेषं तु मतिज्ञानं । तदा वक्ष्यमाणस्वरूपोऽवग्रह एवं मतिज्ञानं स्यान्नपुनरीहापायादयस्तेषां शब्दोल्लेखसहितत्वात् । मतिज्ञानभेदत्वेन वैते प्रसिद्धाः । मतिज्ञानभेदानांवेहापायादीनां साभिलाषत्वेन श्रुतज्ञानप्राप्तिश्च स्यादिषु भयलक्षण संकीर्णता अरोभ्यते । यद्यपीद्दादयः साभिलापास्तथापि न तेषां श्रुतरूपता । श्रुतानुसारिण एवं साभिलापज्ञानस्यश्रु तत्वादथावग्रहादयः श्रुतनिश्रिता एव। सिद्धांते प्रोक्तास्तत्र पूर्वं श्रुतपरिकर्मित मतेरेव ते समुपजायंत इति श्रुतनिश्चिता उच्यते । पुनर्व्यवहारकाले श्रुतानुसारित्वमेतेष्वस्ति । तथाहि अभ्यासपाटववशात्परोपदेश संकेतित शब्दानुसरण मंतरेणैवाक्षरादि प्रवावने इहादिप्रवृत्यनुपलक्षणात् कथं श्रुतानुसारित्वं तत्र संगच्छते । अमुकस्मिन् ग्रंथे एतदित्थमभिहितमित्येवं श्रुतग्रंथानुसरणं विनापि पदाभ्यासवशादनवरतं विकल्पपरंपरापूर्वकविविधवचनप्रवृत्तिदर्शनाद्वा । यत्र तु श्रुतानुसारित्वं तत्रेहादिषु श्रुतरूपता - ऽस्माभिरपि न निषिध्यते । तस्मात् श्रुतानुसारित्वाभावेन श्रुतत्वाभावादीहापायधारणानां मतिज्ञानत्वमेव । न श्रुतज्ञानत्वं । किं च नेह मतिश्रुतयोः परमाणुकरिणोरिवात्यंतिका भेदः समन्वेषणीयः यतः प्रागिवोक्तं विशिष्टः कश्चिन्मतिविशेष एव श्रुतमितिवल्कसदृशं मतिज्ञानं तज्जनितद्द्वरिकारूपं श्रुतज्ञानं । न च वल्कशुंबयोः परमाणुकुंजरवदात्यंतिको भेदः किंतु कारणकार्यभावकृत एव । सचेहाप्यस्ति मतेः कारणत्वेन श्रुतस्य तु कार्यत्वेनाभिधास्यमानत्वान्न च कारणकार्ययोरैकांतिको भेदः । कनककुंडलादिषु मृत्पिडकुंडादिषु तथा अदर्शनात् । तस्मादवग्रहापेक्षयाऽनभिलापत्वादीहायपेक्षया तु साभिलापत्वात्साभिलापानभिलापं मतिज्ञानं अश्रुतानुसारि च संकेतकालप्रवृत्तस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112