Book Title: Agam 44 Chulika 01 Nandi Sutra
Author(s): Chandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
मंदीस्त्र-टीकायाः रनियता । यतो यथा क्षेत्रं वर्द्धते न तथा कालो वर्द्धते । भरतक्षेत्रापेक्षया जम्बूद्वीपो महान् कालस्तु न तथेति । कालवृद्धौतु क्षेत्रवृद्धिर्भवत्येवेति प्रतिपादितं । साम्प्रतम् द्रव्यक्षेत्रकालभावापेक्षया यदृद्धौ यस्य वा न भवत्यमुमथै प्रतिपादयन्नाह ॥
काले चउण्ह वुड्ढी कालो भइयव्वो खेत्तवुड्ढीए । वुड् वुड्ढीए दव्वपज्जवभइयव्वा खेत्तकालाओ । काले अवधिगोचरे वर्द्धमाने सतीति गम्यते । चउण्हवुड्ढित्ति । नियमात् क्षेत्रादीनां चतुर्णामपि वृद्धिर्भवति । कालात्सूक्ष्मसूक्ष्मतरसूक्ष्मतमत्वात् क्षेत्रव्यपर्यायाणां तथाहि कालस्य समयेपि वर्द्धमानक्षेत्रस्य प्रभूतप्रदेशा वर्द्धन्ते । तद्वौ वावश्यंभाविनी द्रव्यवृद्धिः । प्रत्याकाशप्रदेशं द्रव्य प्राचुर्या व्यवृद्धौ च पर्यायवृद्धिर्भवत्येव । प्रतिद्रव्यं पर्यायबाहुल्यादिति । यद्येवं काले वर्द्धमाने शेषस्य क्षेत्रादित्रयस्य वृद्धिर्भवतीति । काले तिगस्सवुड्ढीत्येव वक्तुमुचितं । कथं चतुर्णामित्युक्तं ! सत्य, किंतु सामान्यवचनमेतत्तथाहि देवदत्ते भुञ्जाने सर्वमपि कुटुम्बं भुङ्क्त इत्यादि । अन्यथा ह्यत्रापि देवदत्ताच्छेषमपिकुटुम्बं भुङ्क्त इति वक्तव्यं स्यात् । यथा वा एकस्मिन् रेसनेन्द्रिये जिते पश्चापि जितानि भवन्ति । तथाऽन्धेन भोक्तुमाकारितेन जनद्वयमागच्छतीत्यादि वचनप्रवृत्तिदर्शनादिस्यदोषाः । कालो भइयव्वोखेत्तवुड्ढीएत्ति क्षेत्रस्यावधिगोचरस्य वृद्धावाधिक्येसति कालो भक्तव्यो विकल्पनीयो वद्धते । वा नवा प्रभूते क्षेत्रे वृद्धिंगते वर्द्धते कालो न स्वल्पे इति भावः । अन्यथा हि यदि क्षेत्रस्य प्रदेशादिवृद्धौ कालस्य नियमेन समयादिवृद्धिः स्यात्तदाङ्गुलमात्रादिवर्द्धिते क्षेत्रेकालस्यासङ्ख्येया उत्सर्पिण्यवसर्पिण्योवरस्तथा च वक्ष्यति । अंगुलसेढीमेत्तेउवसर्पिणीओ असंखेजत्ति । अंगुलश्रेणीमात्रे क्षेत्रे यः प्रदेशराशिः स प्रतिसमयं प्रदेशापहारेणापहियमाणोऽसङ्ख्येयावसर्पिणीभिरपहियते इति भावः । ततश्च आवलिया अंगुल पुहुत्तमित्यादि सर्व विभज्येत । तस्मात् क्षेत्रवृद्धौ कालवृद्धिर्भजनीयैव स्थूलत्वात् कालः स्याद्वर्द्धते स्यान्नेति द्रव्यपर्यायास्तु क्षेत्रवृद्धौ नियमा दुर्द्धन्त एवेति स्वयमेव दृश्यं । वुड्ढीए दव्वपज्जवेत्यादि । द्रव्यपर्याययोवृद्धौ सत्यां क्षेत्रकालौ भक्तव्यौ विकल्पनीयौ । वर्द्धते वा नवा तथाह्यवस्थितयोरपि क्षेत्रकालयोस्तथाविधशुभाध्यवसायतः क्षयोपशमवृद्धौ द्रव्यं वद्धत एव तदृद्रौ च पर्यायवृद्धिरवश्यंभाविन्येव । प्रतिद्रव्यं पर्यायानन्याज्जघन्यतो. पि वैकैकद्रव्यादप्यवधेः पर्यायचतुष्टयलाभादिति । पर्यायवृद्धौ च द्रव्यवृद्धिर्भाज्या भवति वा न वेति स्वयमेव द्रष्टव्यं अवस्थितेपि हि द्रव्ये तथा विवक्षयोपशमवृद्धौ पर्याया वर्द्धन्ते एवेतिगाथार्थः । वृत्ती सप्तम्यांततावास्येति । खेत्तवुड्ढीए इत्यस्य पदस्येत्यर्थः । सप्तम्या यथैकारस्तथाह ॥ एहोइ अयारंते इत्यादिगाथाः
. व्याख्याः -द्वितीयाबहुवचनांते अकारांतपदे पुल्लिगे अभिधेयत्तस्यैकारो भवति । गाथा नमिउण जिणवरिंदे इत्यादि ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/bad12f2ac200850fce17dc37cd3f6344b93da9f9961de46fedecad0bb98a1548.jpg)
Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112