Book Title: Agam 44 Chulika 01 Nandi Sutra
Author(s): Chandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 43
________________ नंदीनगढीकाया ... व्याख्याः-ननुयघेकस्मिन् समये केवलज्ञानोपयोगो अन्यस्मिस्तु समये केवलदर्शनोपयोग इष्यते । तथेब क्रमोपयोगास्व केवलज्ञानदर्शनयोः सन्निधानत्वं प्रतिसमयं सांत....प्राप्नोति । तथा च सति तयोः समयोक्कमपर्यवसितत्वं हीयते । अथवा यः कष्टशतानि कृत्वा ज्ञानावरणादिक्षयो विहितः स मिथ्या निरर्थको जिनस्य भगवतः प्राप्नोति । समयात्समयादुज़ केवलज्ञान दर्शनोपयोगयोः पुनरप्यभावान्नापनीतावरणौ द्वौ प्रदीपौ क्रमेण प्रकाश्यं प्रकाशयतः ॥ किंतु युगपदेव । अथवा केवलज्ञानदर्शनयोरितरेतरावरणता परस्परमाचारकत्वं प्राप्नोति । कर्मरूपावरणाभावेपि अन्यतर सद्भावे अन्यतराभावादिति ॥ अथ इतरेतरावरणता नेष्यते । तन्यतरोपयोगकालोन्यस्य निष्कारणमेवाचरणं स्यात्तथा च सति नित्यं सत्त्वमसत्त्वं वेत्यादि प्रसज्जते इति । तथा एकतरस्मिन् ज्ञाने वा अनुपयुक्तस्तस्मिन्नेकतरानुपयुक्ते केवलिनीष्यमाणे ज्ञानानुपयोगकाले तस्य केवलिनो सर्वज्ञत्वं प्राप्नोति । दर्शनानुपयोगकालेत्वसर्वदर्शित्वं प्रसजति । तथा सर्वज्ञत्वं सर्वदर्शित्वं च नेष्टं जैनानां । सर्वदैव केवलिनि सर्वज्ञत्वसर्वदर्शित्वाभ्युपगमादिति । सूरिराह ।। ननु छमस्थस्यापि दर्शनज्ञानयोरेकांतरे उपयोगे सर्वमिदं दोषजालं समानमेव अत्रापि हि शक्यते । एवं वक्तुं ज्ञानानुपयोगे तस्याज्ञानित्वं । दर्शनानुपयोगे पुनरदर्शनित्वं । तथा मिथ्यावरणक्षयः । इतरेतरावरणता वा । निष्कारणावरणत्वं वेत्यादि ॥॥ बहुविधाकाः बहुविधा दोषा इत्यर्थः। भणईत्यादि गाथा विवृता ग्रंथकृता किंचित्सुगमाश्च । तदित्थं बुभुक्षिता जरद्गवीव बुशगृहे प्रविशती निविडयुक्तिलगुडादिधातैनिवार्यमाणापि परस्य दुराग्रह बुद्धिर्ननिवर्त्तते ॥ ततश्चक्षुषी निमील्य धृष्टतया पुनरप्याह॥ उल्ले उभयावरणे गाहाः द्विविधोपयोगभावे इष्यमाणे जिनस्य प्रथमतरमुद्भव उत्पादः । कस्य ज्ञानस्य दर्शनस्यचेति । आवरणक्षयस्य युगपद्भावात्ततो जिनस्य द्विविधोपयोगाभावः । प्राप्नोति इति । प्रश्ने युगपद्भावानिष्टौ एकोपि न प्राप्नोति । अथैवं सूरिः परं दुरभिनिवेशममुंचतमवलोक्य युगपदुपयोगद्वयपक्षं मूलत एवोन्मूलयितु क्रमोपयोगसाधकं व्यक्तमेव सिद्धांतोक्तमादर्शयन्नाह ।। भणियंपिय पन्नत्ती पन्नवणाईसु जह जिणो समयं जं जाणइ न वि पासइ तं अणुरयणप्पभाइणि । ननु प्रज्ञप्त्यां भगवत्यां प्रज्ञापनायां च स्फुटं भाणतमेवोक्तमेव । यथा जिनः केवली परमाणु रत्नप्रभादीनि वस्तूनि समयं जं जाणइत्ति । यस्मिन्समये जानाति । न विपासइ तं ति। तस्मिन्समये नैव पश्यति । किंत्वन्यस्मिन् समये जानात्यन्यस्मिंस्तु पश्यति । इयमत्र भावना ॥ इह. भगवन्यां तावदष्टादशशतस्याष्टमोद्देशके स्फुटमेवोकं तद्यथा ॥॥ उमत्थेणं भंते मणुस्से परमाणुपोग्गलं किं जाणइ न पासइ। उदाहु न जाणइ न पासइ । गो० अत्थेगइए जाणइ न पासइ । एवं जान Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112