Book Title: Agam 44 Chulika 01 Nandi Sutra
Author(s): Chandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 44
________________ दुर्गपदव्याख्या असंखिज्जए एसिए खंधे । इह छमस्थोनिरतिशयो गृह्यते । तत्र श्रुतज्ञानी उपयुक्त । श्रुतज्ञानेन परमाणु जानाति नतु पश्यति । श्रुते दर्शनाभावात् । अपरस्तु न जानाति पश्यति । एवं आहोहिएवि । अधोवधिको न्यूनादधिकः । परमाहिएणं भंते मणुसे परमाणुपोग्गलं जं समयं जाणइ । तं समय पासइ । तं समयं जाणइ । नो इणठे समठे । सो केणठेणं भंते एवं वुच्चइ गो० सागारे से नाणे भवइ । अणगारे से दंसणे भवइ । से तेणढेणं एवं वुच्चइ इत्यादि । केवलःणं भंते मगुस्से परमाणु पोग्गलं जं समयं जाणइ तं समयं पासइ । जं समय पासइ। तं समयं जाणइ णो इणठे समत्थे ।से केणठे भंते एवं वुच्चद गोयमा ! सागारे से नाणे भवइ । अणगारे से दंसणे भवइ । से एएणठेण एवं वुच्चइ इत्यादि । एवं प्रज्ञापनोक्तमपि द्रष्टव्यं । तदेवं सिद्धांते स्फुटाक्षरयुगपदुपयोगे निषिद्धेपि किमिति सर्वानर्थमूलं तदतिमानमुत्सृज्य क्रमोपयोगो नेष्यत इति ॥ ॥ सूत्रक्रमोद्देश इति ॥ नंद्यादि सूत्रे इत्थमेव तस्य निर्देशात् । शुद्धित इति केवलस्य हि सर्वावरणसंभवत्वेन सर्वोत्कृष्टत्वात्सर्वोपरिवर्तिनी विशुद्धिः । लाभत इति । लाभोपि केवलस्य शेषज्ञानानंतरं पश्चादेव भवतीति । मनः पर्यायज्ञानादनंतर केवलज्ञानमुपन्यस्तमतस्तदर्थसूचकोयमथशब्दः । अथानंतर केवलज्ञानमुच्यते । कथंभूतमित्याह । सर्वाणि च तानि द्रव्याणि च सर्वव्याणि । जीयादीनि तेषां परिणमनानि परिणामाः । प्रयोगविस्रसोभयजन्या उत्पादादयः । सर्वद्रव्यपरिणामास्तेषां भावः सत्तास्वलक्षणं वा तस्य विविधं विशेषेण वा झयनं प्रबोधनं विज्ञप्तिः । अथवा विविधं विशेषेण वा ज्ञानमवबोधः परिछित्तिर्विज्ञप्तिस्तस्याः । केवलज्ञानादभेदेपि विवक्षिताभेदायाः। कारणहेतुर्विज्ञप्तिकारणं सर्वद्रव्यक्षेत्रकालभावास्तित्वपरिच्छेदकमित्यर्थः । तच्चानंतज्ञेयविषयत्वेनानंतपर्यायत्वादनंत । शस्वद्भावाच्छास्त्रतं । सततोपयोगमित्यर्थः । तथा अप्रति. पाति अव्यय सदावस्थायीत्यर्थः । समस्तावरणक्षयसंभूतत्वादेकविधं । भेदविमुक्तं । केवलं परिपूर्ण । समस्तज्ञेयावगमान् मत्यादिज्ञाननिरपेक्षवादसहायं वा । केवलं च तत् ज्ञानं च केवलज्ञानमिति गाथार्थः ॥ केवलनाणे गाहा इहेत्युत्पन्न केवलज्ञानस्तीर्थकरादिरर्थात् धर्मास्तिकायादीन् मूर्त्तामूर्त्ताभिलप्यानभिलप्यान् केवलज्ञानेनैव ज्ञात्वा अवबुध्य न तु श्रुतज्ञानेन तस्य क्षयोपशमिकत्वात्केवलिनश्चावरणस्य सर्वथा क्षीणत्वेन तत्क्षयोपशमाभावान्नहि सर्वविशुद्धे पटे देशविशुद्धिः संभवति । तद्वदिहापीति भावः। ततः किमित्याह ॥ तत्र तेषामर्थानां मध्ये ये प्रज्ञापनायाः प्ररूपणाया योग्यास्तानभिलाप्यान् भाषते तेनेतराननभिलाप्यान् प्रज्ञापनीयानपि न सर्वानेव भाषते । तेषामनंतत्वा Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112